________________
૨૫-પુણ્યાનુબંધિપુણ્ય અષ્ટક
જિનાગમમાં સંભળાય છે— આવશ્યક નિર્યુક્તિમાં આ પ્રમાણે વાંચવામાં આવે છે. ‘ગર્ભમાં જ રહેલા ભગવાન શ્રી મહાવીરે ગર્ભથી આરંભી સાતમા મહિને અહો ! માતાપિતાનો મારા ઉપર અતિશય સ્નેહ છે. એથી જો હું તેમનાં જીવતા દીક્ષા લઉં તો ચોક્કસ તે બે ન જીવે, એમ જાણીને માતા-પિતા જીવતા હોય ત્યાં सुधी बुं श्रभए। नहि था. जेवो अभिग्रड सहए। डयो. (आव.नि. भाष्य गाथा - प८) (3)
यथाभूतोऽभिग्रहः श्रूयते तथाभूतमेवाह
जीवतो गृहवासेऽस्मिन्, यावन्मे पितराविमौ । तावदेवाधिवत्स्यामि, गृहानहमपीष्टतः ||४||
અષ્ટક પ્રકરણ
૨૭૪
1
वृत्तिः– किल भगवान् श्रीमन्महावीरवर्धमानस्वामी देवभवाच्च्युत्वा पूर्वभवोपात्तनीचैर्गोत्राभिधानकर्मशेषवशाद् ब्राह्मणकुण्डग्रामाभिधाननगरनिवासिऋषभदत्ताभिधानद्विजातिजायाया देवानन्दाभिधानायाः कुक्षावुत्पन्नः । अथ द्व्यशीतितमदिवसे सिंहासनचलनजनितावधिप्रयोगपुरन्दरप्रयुक्तहरिनैगमेषिनाम्ना देवेन क्षत्रियकुण्डाभिधाननगरनायकसिद्धार्थाभिधाननरपतिप्रधानपल्यास्त्रिशलाभिधानायाः गर्भे संक्रमितः । ततो देवानन्दामुपलब्धचतुर्दशमहास्वप्नापहारां सम्भावितगर्भसंहारां हृतसर्वस्वामिवातिशोकसागरमग्नामवधिनावबुध्याहोऽस्मन्निमित्तमेषानाख्येयदुःखमवाप्तवत्येवमेषापि त्रिशला मदङ्गचलनचेष्टानिमित्तमसुखमथ मा प्रापदित्यालोच्य निश्चलोऽवतस्थे । ततोऽसौ निष्पन्दतां गर्भस्यावगम्य गलितो गर्भो ममेति भावनया गाढतरं दुःखसमुदयमगमत् । ततो भगवांस्तददुः खविनोदाय स्फुरतिस्म, पर्यालोचयाञ्चकार च यदुतादृष्टेऽपि मयि मातापित्रोरहो गाढः स्नेहो दृष्टे पुनः परिचयादवगतगुणग्रामे गाढतरोऽसौ भावी, ततः प्रव्रजनतो वियुज्यमाने शोकातिशयान्महानन्तस्तापो भविष्यति, ततोऽनयोर्जीवतोस्तत्सन्तापपरिहारार्थमप्रव्रजितेन मया भाव्यमिति सप्तममासेऽभिग्रहं जग्राहेति श्लोकसमुदायार्थः । अक्षरार्थस्त्वयम्- 'जीवतः' प्राणान्धारयतः, ‘पितरौ’ इति योग:, ‘गृहवासे' गृहस्थतायाम्, 'अस्मिन्' अधुनातने न पुनर्देवादिभवसंभवेऽपि, 'यावत्' यत्परिमाणमिति पितृजीवनक्रियाविशेषणम्, 'मे' मम सम्बन्धिनौ, 'इमौ ' प्रत्यक्षासन्नौ त्रिशलासिद्धार्थलक्षणौ न पुनर्ऋऋषभदत्तदेवानन्दास्वरूपौ, 'तावदेव' तत्परिमाणमेव न पुनरधिकम्, विरतावभिष्वङ्गाच्चेत्थमुक्तमवधारणम्, एतच्चाधिवत्स्यामीतिक्रियाविशेषणम्, 'अधिवत्स्यामि' अध्यासिष्ये, 'गृहान्' गेहम्, गृहशब्दो हि पुल्लिङ्गो बहुवचनान्तोऽप्यस्तीति, अथवा राजत्वाद् बहुगृहाधिपतित्वमनेन दर्शितम्, 'अहमपि' न केवलं पितरौ गृहानधिवत्स्यत इति 'अपिशब्दार्थ:', इष्टमिच्छा तदाश्रित्य 'इष्टत:' इच्छया स्वच्छन्दतया, न पुनः पारवश्येन इति भावः । ननु तावन्तं कालं चारित्रमोहनीयकर्मविशेषोदये सति तस्य गृहावस्थानमन्यथा वा, तत्र यद्याद्यः पक्षस्तदा कर्मविशेषोदय एव तत्रावस्थानकारणं नाभिग्रहणं, ततः किं तदभिग्रहणेन, अथ चारित्रमोहनीयविशेषोदयाभाव इति पक्षः, तदप्यसङ्गतम्, मोहकर्मविशेषोदयाभावे विरतेरेव भावेन गृहावस्थानासम्भवात्, व्यर्थमेवाभिग्रहकरणमिति अत्रोच्यते, मोहनीयविशेषोदय एव तत्र तस्यावस्थानम्, किन्तु तत्कर्मणः सोपक्रमत्वेन पित्रुद्वेगनिरासाद्यवलम्बनाभिग्रहानङ्गीकरणे विरतेरेव भावान्न गृहावस्थानहेत्वभिग्र