________________
અષ્ટક પ્રકરણ
૨૬૩
૨૪-પુણ્યાનુબંધિપુણ્યાદિચતુર્ભાગી અષ્ટક
स्पष्ट एवेति ॥८॥
॥त्रयोविंशतितमाष्टकविवरणं समाप्तम् ॥२३॥ ઉપસંહાર કરતા ગ્રંથકાર કહે છે–
શ્લોકાર્થ– આથી આત્મહિત ઇચ્છનાર બુદ્ધિમાન પુરુષે સર્વ પ્રયત્નથી શાસનની હિલના ન કરવી જોઇએ, અને શક્તિ હોય તો અવશ્ય () જૈનશાસનમાં પ્રભાવના કરવી જોઇએ, અર્થાત્ જિનશાસનની પ્રભાવના કરવી જોઇએ. કારણકે જેનશાસનની પ્રભાવના તીર્થંકર નામકર્મનું મુખ્ય કારણ છે. (૭-૮)
શાસનમાલિ નિષેધ નામના ત્રેવીસમા અષ્ટકનું વિવરણ પૂર્ણ થયું
॥२४॥ अथ चतुर्विंशतितमं ॥
पुण्यानुबन्धिपुण्यादिविवरणाष्टकम् ॥ शासनोन्नतिकरणाद्धितोदयामुन्नतिमाप्नोतीत्युक्तम्, तत्र किमहितोदयाप्युन्नतिरस्ति येनासौ सविशेषणाभिधीयते, उच्यते, अस्ति, यतः पुण्यजन्योन्नतिः । पुण्यापुण्यविचारे च चत्वारो भङ्गा भवन्ति, तद्यथा- पुण्यानुबन्धिपुण्यमित्येकः, पापानुबन्धिपुण्यमिति द्वितीयः, पापानुबन्धिपापमिति तृतीयः, पुण्यानुबन्धिपापमिति चतुर्थः, तत्राद्यभङ्गकप्रतिपादनायाह
___ पाठान्तरापेक्षया पुनरेवं सम्बधः- तीर्थकुनामकर्मण इति प्रागुक्तं, तच्च पुण्यं, पुण्यादिविचारे च प्रागुक्ता एव चत्वारो भङ्गका भवन्ति । तत्राद्यभङ्गकाभिधानायाह
गेहाद् गेहान्तरं कश्चि-च्छोभनादधिकं नरः। याति यद्वत्सुधर्मेण, तद्वदेव भवाद्भवम् ॥१॥
वृत्तिः- 'गेहाद् गेहान्तरं कश्चित्' अनिर्दिष्टनामा नर इति योगः, किम्भूताद्गहात् 'शोभनात्' रमणीयात्, किम्भूतं गेहान्तरं 'अधिक' शोभनतरम्, 'नरो' मानवः, नरग्रहणं चेह विशिष्टचरणसाध्यपुण्ययोग्यत्वेन तस्य प्राधान्यख्यापनार्थम्, 'याति' गच्छति, 'यद्वत्' यथेति दृष्टान्तः, 'सुधर्मेण' पुण्यानुबन्धित्वाच्छोमनः कृपादिर्धर्मजन्यत्वाद्धर्मश्चेति सुधर्मस्तेन, पुण्यानुबन्धिपुण्यकर्मणेत्यर्थः, 'तद्वदेव' तथैव, 'भवात्' मनुष्यादिजन्मनः शोभनस्वभावात्सकाशात्, 'भवं' देवादिभवं शोभनतरस्वभावम्, यातीति प्रकृतम्, यत्किल शुभमनुष्यादेर्जीवस्य पूर्वभवप्रपञ्चितं कर्म मानुष्यत्वादिशुभभावानुभवहेतुर्भवति तदनन्तरं देवादिगतिपरम्पराकारणं च तत्पुण्यानुवन्धिपुण्यमुच्यते, एतच्च ज्ञानपूर्वकनिर्निदानकुशलानुष्ठानाद्भवति, भरतादेरिवेति ॥१॥