________________
અષ્ટક પ્રકરણ
૨૩૯
૨૧-સૂમબુદ્ધિ અષ્ટક
एवं विरुद्धदानादौ, हीनोत्तमगतेः सदा । प्रव्रज्यादिविधाने च, शास्त्रोक्तन्यायबाधिते ॥७॥ द्रव्यादिभेदतो ज्ञेयो, धर्मव्याघात एव हि । सम्यग्माध्यस्थ्यमालम्ब्य, श्रुतधर्मव्यपेक्षया ॥८॥
वृत्तिः- यथाग्लानभैषज्यदानाभिग्रहे धर्मबुद्ध्या कृतेऽपि बुद्धिदोषात् धर्मव्याघातः प्रसज्यते (जति), ‘एवं' अनेनैव न्यायेन, विरुद्धस्य शास्त्रे विनिवारितस्य जीवोपघातहेतुत्वाद्देयद्रव्यस्याधाकर्मादिदोषदूषितस्य माष (मांस) तिलादेर्वा, विरुद्धाय वा सदोषत्वेन शास्त्रनिराकृताय पात्राय, दानं वितरणं विरुद्धदानम्, तदादिर्यस्य शीलतपोभावनाधर्मस्य गुरुविनयदेवतापूजनादेर्वा स 'विरुद्धदानादिः' तत्र, द्रव्यादिभेदतो धर्मव्याघात एव ज्ञेय इति योगः, कुत इत्याह- हीनस्य गुणवियुक्तस्य देयद्रव्यस्य पात्रस्य वा उत्तम प्रधानं एतदिति गतिरवगमो बोधो हीनोत्तमगतिः ततो हीनोत्तमगतेः,' 'सदा' सर्वदा, शास्त्रनिराकृतत्वेन हि हीनमपि देयं पात्रं चोत्तममिति बोधविपर्ययादनवगच्छन् यदा दाने प्रवर्तते तदा धर्मस्य व्याघातः स्फुट एवेति । दातव्यद्रव्यविरुद्धता च- "अन्नाईणं सुद्धाण, कप्पणिज्जाण देसकालजुयं । दाणं जईणमुचियं, गिहीण सिक्खावयं भणियं ॥१॥" इत्येतद्दानविशेषणविपर्ययादवसेया । पात्रविरुद्धता पुनरेवम्-“सीलव्वयरहियाणं, दाणं जं दिज्जई कुपत्ताणं । तं खलु धोवइ वत्यं, रुहिरकयं लोहितेणेव ।' तथा प्रवज्यादीनां सर्वविरतिप्रतिपत्तिप्रभृतीनां विधानं करणं 'प्रव्रज्यादिविधानम्' आदिशब्दाद्देशविरत्यादिग्रहः, 'तत्र च' न केवलं विरुद्धदानादावेव, किम्भूते प्रव्रज्यादिविधान इत्याह- 'शास्त्रोक्तन्यायबाधिते' आगमाभिहितनयनिराकृते, हीनोत्तमगतेरिति हेतुरिहापि वर्तते, धर्मव्याघातो ज्ञेय इत्येतदत्रापि सम्बन्धनीयम्, तत्र प्रव्रज्यादिविधाने शास्त्रोक्तोऽयं न्यायः- "निययसहावालोयण-जणवायावगमजोगसुद्धीहिं । उचियत्तं नाऊणं, निमित्तओ सइ पवट्टेज्जा ॥१॥' तथा 'पव्वज्जाए जोग्गा, आरियदेसम्मि जे समुप्पन्ना । जाइकुलेहिं विसिट्ठा, तह खीणप्पायकम्ममला ॥१॥" इत्यादि । देशविरतौ पुनः, "गुरुमूले सुयधम्मो, संविग्गो इत्तरं व इयरं वा । वज्जेत्तु तओ सम्मं, वज्जेइ इमे अईयारे ॥१॥" जिनदीक्षायां तु "दीक्खाए चेव रागो, लोगविरुद्धाण चेव चागोत्ति । सुंदरगुरुजोगो वि य, जस्स तओ एत्य उचिओत्ति ॥१॥"
एतद्बाधा च एतद्विपर्ययादिति, 'द्रव्यादिभेदतो' द्रव्यक्षेत्रकालभावविशेषानाश्रित्य, विरुद्धदानादौ प्रव्रज्यादिविधाने च, 'ज्ञेयो' ज्ञातव्यः, 'धर्मव्याघात एव' धर्मबाधैव, न तु धर्माराधनम्, तत्र विरुद्धदाने ७. अन्नादीनां शुद्धानां कल्पनीयानां देशकालयुतम् । दानं यतिभ्य उचितं गृहिणां शिक्षावतं भणितम् ॥१॥ ८. शीलवतरहितानां (तेभ्यो) दानं यद्दीयते कुपात्राणाम् (त्रेभ्यः) । तत् खलु धाव्यते वखं रुधिरकृत लोहितेनैव ।।१।। ९. निजकस्वभावालोचनजनवादावगमयोगशुद्धिभिः । उचितत्वं ज्ञात्वा निमित्ततः सदा प्रवर्तेत ।।१।। १०. प्रव्रज्यायै योग्याः आर्यदेशे ये समुत्पन्नाः । जातिकुलैर्विशिष्टाः तथा क्षीणप्रायकर्ममलाः ॥१॥ ११. गुरुमूले श्रुतधर्मः संविग्न इत्वरं वा इतरं वा । वर्जयित्वा ततः सम्यग् वर्जयति इमानतिचारान् ॥१॥ १२. दीक्षायामेव रागो लोकविरुद्धानामेव त्याग इति । सुन्दरगुरुयोगोऽपि च यस्य सोऽत्रोचित इति ॥१॥