SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ १७ ૧-મહાદેવ અષ્ટક विति होतत्, तत्कालैरपि बोधृभिः । तत्ज्ञानज्ञेयविज्ञान-शून्यैर्ज्ञातुं न शक्यते ॥१॥" इति । नैवम्, सत्तासाधकप्रमाणाग्राह्यत्वस्यासिद्धत्वात् । तथाहि-ये अपचयधर्माणस्ते अत्यन्तक्षयिणोऽपि संभवन्ति, यथा सामग्रीविशेषाद्वस्र(द्धेम)रत्नमलादयः । अपचयधर्मकच ज्ञानावरणादयः, अतः सर्वथाक्षयिणोऽपि संभवन्ति इति । तेषां चात्यन्तापचये सर्वज्ञत्वादयो भवन्त्येव । न च ज्ञानावरणादीनामपचयधर्मत्वमसिद्धम् । स्वसन्तानेऽपि ज्ञानादेरुपचयविशेषानुभूत्या तदावरणापचयविशेषस्य सिद्धेरिति । उक्तं च "दोषावरणयोहानि-निःशेषास्त्यतिशायनात् । क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः ॥१॥" तथा य एते बन्धमोक्षपरलोकादयोऽतीन्द्रिया भावास्ते कस्यापि प्रत्यक्षा अनुमानगोचरत्वात्, यथा अग्न्यादया इति । उक्तं च"सूक्ष्मान्तरितदूरार्थाः, प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादि-रिति सर्वज्ञसंस्थितिः ॥१॥" इति । एवं च तज्ञानज्ञेयविज्ञानशून्यैरप्यनुमानेनावगम्यतेऽसौ, अचतुर्वेदिना चतुर्वेदीवेति ॥ ___तथा 'यः शाश्वतसुखेश्वरः' क्रिया पूर्ववत् । पुनर्यच्छब्दोपादानमवस्थाविशेषोपदर्शकम् । अयमभिप्रायः वीतरागत्वं सर्वज्ञत्वं च रागादिक्षयादाविर्भूतं भवस्थकैवल्याद्यवस्थायां महत्त्वकारणम्, शाश्वतसुखेश्वरत्वादि तु विशेषणत्रयं भवातीतावस्थायां महत्त्वकारणमिति । तत्र शश्वन्नित्यं भवतीति शश्वतम् । तच्च तत्सुखं च निर्वाणजनितानन्दरूपम्, अपरस्य शाश्वतत्वानुपपत्तेरिति शाश्वतसुखम् । तस्य ईश्वरः स्वामी स्वयं तत्प्राप्तत्वात् 'शाश्वतसुखेश्वरः'। ननु सर्वस्यापि वस्तुनः क्षणिकत्वात् कथं सुखस्य शाश्वतत्वम् । अत्रोच्यते-न हि सर्वथा वस्तुनः क्षणिकत्वमुत्पादविनाशधौव्यरूपत्वात् । इह च बहु वक्तव्यं तत्तु पञ्चदशाष्टकादवसेयमिति । न च तथाभूतसुखस्यासंभव एव सुखावरणस्यापचयदर्शनेनात्यन्तिकस्यापि तदपचयस्य सम्भाव्यमानत्वादिति च पूर्वमुक्तप्रायमिति । अनेन च विशेषणेन प्रतिक्षणक्षयाघ्रातवस्तुवादिपरिकल्पितदेवस्य महत्त्वव्युदासः । तन्मतेन एवंविधसुखाद्यभावात् तदभावे च महत्त्वस्य कल्पनामात्रत्वादिति । तथा क्लिष्टाः क्लेशस्वरूपभवहेतुत्वेन क्लेशिका याः कर्मकला ज्ञानावरणाद्यष्टप्रकारकर्मांशास्तेभ्यो ऽतीतोऽपेतो यः स 'क्लिष्टकर्मकलातीतः' । अनेन च ये मन्यन्ते "ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वागच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥" इति तत्सम्मतदेवस्य महत्त्वव्युदासः । क्लिष्टकर्मकलाभावे हि भवावतारासम्भवात् । आह च-"अज्ञानपांशुपिहितं, पुरातनं कर्मबीजमविनाशि । तृष्णाजलाभिषिक्तं, मुश्चति जन्माङ्क(न्त)रं जन्तोः ॥१॥" अशुभस्वरूपभवावतारिणश्च स्वकीयतीर्थनिकारासहिष्णोः प्राकृतस्येव कीदृशं महत्त्वमिति ॥ ____तथा 'सर्वथा' सर्वैः प्रकारै 'निष्कलः' सर्वशरीरावयवविरहितस्तदभावे हि सुखसम्भवः । यदाह- "शरीरमनसोरभावे दुःखाभावः" । सशरीरत्वेन च दुःखसंभवे कीदृशं महत्त्वम् । अनेन च ये शरीरतोऽस्य महत्त्वं प्रतिपन्नाः “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात्" इत्येतस्य वाक्यस्य श्रूयमाणार्थाभ्युपगमात्तन्मतं व्युदस्तमेवंविधस्यासम्भवात्तदसम्भवच विश्वस्य सर्वतश्चक्षुषैव व्याप्तत्वात्तदन्येषामवयवानामनाधारत्वेनाभावप्रसङ्गात्तैरेव वाक्यान्तरेणान्यथाविधस्य महत्त्वाभिधानेन स्वमतविरोधाच्च । आह च-"अपाणिपादो ह्यमनो (जवनो) ग्रहीता, पश्यत्यचक्षुः स शृणोत्यकर्णः । स वेत्ति विवं
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy