________________
અષ્ટક પ્રકરણ
૨૦૧
૧૬-નિત્યાનિત્યપક્ષમંડન અષ્ટક
જેટલી) જૂન થાય ત્યારે જીવ ચાર (શ્રુત-સમ્યકત્વ-દેશવિરતિ-સર્વવિરતિ) સામાયિકમાંથી કોઇપણ એક सामायिने पामेछ. (विशेषावश्य:-११८3) (४)
ततः किं जातमित्याहअहिंसैषा मता मुख्या, स्वर्गमोक्षप्रसाधनी । एतत्संरक्षणार्थं च, न्याय्यं सत्यादिपालनम् ॥५॥
वृत्तिः- 'अहिंसा' अव्यापादनम्, 'एषा' अनन्तरोक्तोपपत्तिका हिंसाविरतिः, 'मता' इष्टा विदुपाम्, 'मुख्या' निरुपचरिता, इयं च प्रासङ्गिकप्रधानफलापेक्षया क्रमेण 'स्वर्गमोक्षप्रसाधनी' देवलोकनिर्वाणहेतुभूता । अथैतस्या एव स्वर्गादिसाधनत्वात् किं सत्यादिपालनेनेत्याशङ्कयाह- ‘एतत्संरक्षणार्थ' अनन्तरोदिताहिंसाव्रतपरित्राणार्थम्, 'चशब्दः' पुनरर्थोऽवधारणार्थो वा, 'न्याय्यं न्यायादनपेतं उपपन्नमित्यर्थः, 'सत्यादिपालनं' मृषावादादिनिवृत्तिनिर्वाहणम्, अहिंसासस्यसंरक्षणे वृत्तिकल्पत्वात्सत्यादिवतानामिति ॥५॥
तथी | क्युं छ
શ્લોકાર્થ– સ્વર્ગ-મોક્ષનું કારણ એવી આ પારમાર્થિક અહિંસા વિદ્વાનોને ઇષ્ટ છે. અહિંસાના રક્ષણ માટે સત્યાદિનું પાલન નીતિથી યુક્ત છે. (૫)
ટીકાર્ય– સ્વર્ગ-મોક્ષનું કારણ- અહિંસા પ્રાસંગિક ફળની અપેક્ષાએ સ્વર્ગનું અને મુખ્યફળની અપેક્ષાએ મોક્ષનું કારણ છે.
અહિંસાના રક્ષણ માટે સત્યાદિનું પાલન નીતિથી યુક્ત છે– કારણ કે અહિંસારૂપ ધાન્યના રક્ષણ भाटे सत्याहितो समान छ. (५)
अथ पूर्वोक्तस्यात्मनो नित्यानित्यत्वस्य देहाद्भिन्नाभिन्नत्वस्य च साधने प्रमाणोपदर्शनायाह
स्मरणप्रत्यभिज्ञान-देहसंस्पर्शवेदनात् । अस्य नित्यादिसिद्धिश्च, तथा लोकप्रसिद्धितः ॥६॥
वृत्तिः- 'स्मरणं' पूर्वोपलब्धार्थानुस्मृतिः, 'प्रत्यभिज्ञानं' सोऽयमित्येवंरूपः प्रत्यवमर्शः, तथा 'देहस्य' शरीरस्य, 'संस्पर्शो' वस्त्वन्तरेण स्पर्शनं तस्य, वेदनं अनुभवनम्, देहसंस्पर्शेन वा वेदनं स्पर्शनीयवस्तुपरिज्ञानं देहसंस्पर्शवेदनमिति, पदत्रयस्यास्य समाहारद्वन्द्वः तस्मात्, ‘अस्य' आत्मनः, 'नित्यादिसिद्धिः' नित्यानित्यत्वदेहाद्भिनाभिन्नत्वप्रतिष्ठा, 'चशब्दः' पुनःशब्दार्थः, नित्यानित्यत्वादिविशेषणे आत्मनि अहिंसादिसिद्धिः नित्यानित्यत्वादिसिद्धिः पुनः स्मरणादेरिति भावः । प्रयोगश्चात्र, नित्यानित्य आत्मा,