SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ ૧૧-ત૫ અષ્ટક અષ્ટક પ્રકરણ ૧૫૭ वृत्तिः- “विशिष्टाः' प्रधानाः सम्यग्दर्शनविशेषितत्वात्, 'ज्ञानं' च तत्त्वसंवेदनम्, 'संवेगश्च' संसारभयं मुक्तिमार्गाभिलाषिता वा, 'शमश्च' कषायेन्द्रियमनसां निरोधो ज्ञानसंवेगशमाः, विशिष्टश्च ते ते चेति कर्मधारयः, त एव 'सारो' ऽन्तर्गर्भो यस्य तैर्वा सारं यत्तत्तथा, ज्ञानादिसारमेव तपः तपो भवति नेतरत्, अल्पफलत्वात्, । यदाह-"सट्ठिवाससहस्सा" *गाथा, "छज्जीवकायवहगा" xगाथा । 'अतः' इति यस्मादुक्तयुक्तेरदुःखात्मकमत एतस्माद्धेतोः, 'तपो'ऽनशनादि, किमित्याह-क्षयेण उदीर्णचारित्रमोहनीयकर्मणश्छेदेन सह उपशमस्तस्यैव विपाकापेक्षया विष्कम्भितोदयत्वं क्षयोपशमस्तत्र भवं 'क्षायोपशमिकम्' 'ज्ञेयं' ज्ञातव्यम्, न पुनः कर्मोदयस्वरूपम् । तथा अविद्यमाना व्याबाधा अविरतिजनिताः अनन्तराः पारम्पर्यकृता वा ऐहिक्यः पारत्रिक्यो वा यस्मिंस्तदव्याबाधम्, तच्च तत्सुखं च तदेवात्मा स्वभावो यस्य तद् ‘अव्याबाधसुखात्मकं' प्रशमसुखात्मकं सिद्धसुखानुकारीत्यर्थः । अनेन च श्लोकेन तपसोऽकर्मोदयस्वरूपत्वमदुःखत्वरूपत्वं चावेदितम् । उक्तं चैतदन्यत्रापि-"जं इय इमं न दुक्खं, कम्मविवागो वि सव्वहा णेवं । खाओवसमियभावे, एयंति जिणागमे भणियं ॥१॥ खंताइसाहुधम्मे, तवगहणं सो य खओवसमियम्मि । भावम्मि विणिहिटो, दुक्खं चोदइयगे सव्वं ॥२॥ एतेन च तपसो दुःखरूपत्वकर्मोदयस्वरूपत्वपरिहारेण "सर्व एव हि दुःख्येवं" इत्यादिश्लोक (२-३) द्वयाभिहितं तपोदूषणं सर्वं परिहतमवगन्तव्यं दुःखस्वरूपत्वाश्रयत्वात्तस्येति ॥८॥ ___ अन्ये त्विदमष्टकमेवं व्याचक्षते- 'दुःखात्मकं' दुःखमेवेत्यर्थः, 'तपः केचिन्मन्यन्ते,' तदेतत् दुःखात्मकतपो मननम्, (? न) युक्तिमत्, कुत इत्याह- कर्मोदयस्वरूपत्वात् दुःखस्य, किंवत् इत्याह- बलीवर्दादिदुःखवत्, तपसश्च क्षायोपशमिकत्वादिति (१), इह एव दूषणान्तराभिधानायाह- सर्व एव चेत्यादिश्लोकद्वयम्, अथवा दुःखात्मकं तपः केचिन्मन्यन्ते कर्मोदयस्वरूपत्वालीवादिदुःखवदिति, न चेह साध्यदृष्टान्तयोरेकत्वमिति वाच्यम्, बलीवर्दादिशब्देन विशेषितत्वात् दृष्टान्तस्येति, सद्धेतुरेवायम्, वृक्षोऽयम्, शाखादिमत्त्वात्, ग्रामवृक्षवदित्यादिवदिति । अत्राचार्य आह- तन्न युक्तिमदिति, कुत इत्याह, सर्व एव चेत्यादिश्लोकद्वयम्, इह चशब्दो यस्मादर्थो द्रष्टव्यः (२-३) आचार्य एवोभयत्र परस्योपदेशमाह- युक्त्यागमेत्यादि, इदमिति तपसो दुःखात्मकत्वमननम् (४) । शेषं तु श्लोकचतुष्टयं पूर्ववदेव, नवरं "मन इन्द्रिययोगानामहानिश्चोदिता जिनैः" इत्यत्र चशब्दः पूर्वोक्तयुक्त्यपेक्षया युक्त्यन्तरसमुच्चयार्थो द्रष्टव्य इति । ॥ एकादशाष्टकविवरणं समाप्तम् ॥११॥ આ પ્રમાણે “તપ દુઃખ વરૂપ છે' એ કથનનું નિરાકરણ કરીને હવે “તપ કર્મના ઉદય સ્વરૂપ છે” એ કથનનું નિરાકરણ કરતા ગ્રંથકાર કહે છે – * षष्टिवर्षसहस्राणि । तिसत्तखुत्तो दएण घोएण । अणुचिण्णं तामलिणा, अन्नाणतवुत्ति अप्पफलो ॥११॥ इति गाथापूर्तिः ॥ x षड्जीवकायवधकाः । हिंसकसत्थाई उवइसंति पुणो । सुबहुं पि तवकिलेसो बालतवस्सीण अप्पफलो ॥२॥ इति गाथापूर्तिः ॥ ८९. यदितीदं न दुःखं नापि कर्मविपाकोऽपि सर्वथा नैव । क्षायोपशमिकभावे एतदिति जिनागमे भणितम् ॥११॥ ९०.क्षान्त्यादिसाधुधर्मे तपोग्रहणं तच्च क्षायोपशमिके । भावे विनिर्दिष्टं दुःखं चौदयिके सर्वम् ॥२॥
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy