SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ અષ્ટક પ્રકરણ ૧૫૫ ૧૧-તપ અષ્ટક वृत्तिः- न केवलमस्माभिरेवेहोपन्यस्ता, 'दृष्टा च' लोकेऽवलोकिता, 'इष्टार्थसंसिद्धौ' अभिप्रेतप्रयोजनप्राप्तौ सत्याम्, 'कायपीडा' देहबाधा, 'हिशब्दः' स्फुटार्थः, 'अदुःखदा' न पीडाकारिणी, केषामित्याह- रत्नानि मरकतादीनि आदिर्येषां वस्त्रसुवर्णादीनां तानि तथा, तेषां वणिक् वाणिजको रत्नादिवणिक्, स आदिर्येषां कृषीवलादीनां ते तथा तेषां 'रत्नादिवणिगादीनाम्,' ततः किमित्याह- तेषामिव वणिगादीनामिव 'तद्वत् अत्रापि' अनशनादितपोविषयेऽपि, 'भाव्यतां' निपुणधिया पर्यालोच्यताम्, तथाहिरत्नसुवर्णवसनादिवणिक्कृषीवलादीनां समीहितार्थसंसिद्धिबद्धनिश्चयानां अपारपारावारावतारकान्तारनिस्तरणधरणीप्रकर्षणादिविविधव्यापारपरायणानां क्षुत्पिपासाश्रमादिजनितदेहपीडा न मनोविधुरताऽऽधायिनी, एवं साधूनामपारसंसारसागरमचिरादुत्तितीर्पूणामनशनोनोदरतादितपोजनितदेहपीडा न मनोबाधाविधायिनीति । इह पुनर्विशेषसम्प्रदाय केचिदेवमूचुः-"किल कोपि दरिद्रवणिजको दूरदेशान्तरं गत्वा कथंकथमपि रत्नान्युपार्जितवान् चिन्तितवांश्च, कथमहमेतानि महामूल्यानि सर्वाशासम्पादकानि महारत्नानि चौरव्याकुलमरण्यं निस्तीर्य स्वनगरं गत्वोपभोगं नेष्यामि, ततस्तेनोत्पन्नबुद्धिना तान्येकत्र स्थाने निहितानि, काचादिशकलानि च पोट्टलिकायां बद्धानि, सा च दण्डाग्रे निबद्धा, ततश्चौरपल्लीमध्येन 'अहो रनवणिजको गच्छति' इत्येवं महता शब्देन व्याहरन्नरण्यमतिक्रामति स्म, ततो मार्गपल्लीषु च ये जनास्ते तं वीक्ष्य ससंभ्रममागत्य निभालयन्ति स्म, अपश्यंश्च काचादिशकलानि, अवधीरितवन्तश्च ग्रहगृहीतोऽयमिति विभावयन्तः, ततः पुनरपि तथैव निवृत्तः, तत्रापि यैः पूर्वं न वीक्षित आसीत्ते तथैव वीक्षितवन्तोऽथावधीरितवन्तश्च, एवं पुनरपि असावरण्यमध्येन गतवान् ततस्तृतीयवेलायामतिपरिचितत्वादवधीरितस्तस्करजनेन, ततोऽसौ निश्चितं न मां कोपि अत्रारण्यमार्गे स्खलयिष्यतीति निश्चित्य रत्लानि गृहीत्वा शीघ्रं शीघ्रं तदुपयो(भो)गाय वाञ्छितपुरप्राप्तावरण्यात्तन्निर्वाहणे चातीवौत्सुक्येनानवरतमहाप्रयाणकैः क्षुत्पिपासाश्रमादीन् भवतो भूयसोऽप्यवगणयन् गन्तुं प्रवृत्तः । बहुतरमार्गमतिलवित्तः सन् पिपासाभिभूतो भावयामास, अहो अहमद्य जलं विना प्रिये, न च रत्नोपभोगभाजनं भवामीत्येवं भावयता मरणभयभीतेन रत्नोपभोगकाक्षिणा दृष्टं सरः पङ्कप्रायपानीयं पङ्कमग्नमृगादिकलेवरपूयकृमिजालव्याकुलं विलीनमतिदुर्गधं विरसं तुच्छजलं, दृष्ट्वा च गन्धमजिघ्रता. रसमनास्वादयता दुष्करकरणं कुर्वता अक्षिणी निमील्याञ्जलिभिस्तत्पीतवान्, परं स्वास्थ्यं चागमत्, तदुपष्टम्भितश्च क्षीणपिपासादुःखोऽक्षेपेणेष्टपुरं प्राप्तः रत्नोपभोगसुखं चेति ।" उपनयस्तु प्रागुक्त एवेति ॥७॥ ઇષ્ટકાર્યની સિદ્ધિમાં દેહપીડા દુઃખરૂપ બનતી નથી એ વિષયનું દષ્ટાંતથી સમર્થન કરતા ગ્રંથકાર छ શ્લોકાર્થ– રત્ન વગેરેના વેપારી વગેરેને ઇષ્ટકાર્યની સિદ્ધિમાં થતી કાયપીડા દુઃખ આપનારી બનતી નથી. એ સ્પષ્ટપણે લોકમાં જોવામાં આવ્યું છે. તે પ્રમાણે તપમાં પણ સૂક્ષ્મબુદ્ધિથી વિચારો. (૭) ટીકાર્થ– રન વગેરેના એ સ્થળે વગેરે શબ્દથી વસ્ત્ર અને સુવર્ણ વગેરેનું ગ્રહણ કરવું. વેપારી વગેરેને એ સ્થળે વગેરે શબ્દથી ખેડૂત વગેરેનું ગ્રહણ કરવું. લોકમાં જોવામાં આવ્યું છે– કેવળ અમોએ જ અહીં કહ્યું છે એમ નથી, કિંતુ લોકમાં પણ જોવામાં
SR No.022090
Book TitleAshtak Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year
Total Pages354
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy