________________
श्रामण्योपनिषद्
॥ मङ्गलम् ॥
ऐन्द्रं परं ज्योतिरिदं नमामि,
प्राप्तात्मलाभं दशकात्मलाभात् । ज्योतिषि नो नापि तमांसि जातु,
यस्योदये स्वोदयमाप्नुवन्ति ॥ (इन्द्रवज्रा)
॥क्षमा॥ श्रमणं भगवन्तं श्री - महावीरमुपास्महे । तितिक्षूणां मुमुक्षूणा - माद्योदाहरणं भवे ॥१॥
उपकारी स मे तस्मात्, क्षन्तव्यं हि मयेत्ययम् । क्षमायाः प्रथमो भेदः, कृतज्ञादिषु दर्शितः ॥२॥
असहनेऽपकारी स्या-देष क्षन्तव्यमित्ययम् । सुलभो दुःखभीरूषु, क्षमाभेदो द्वितीयकः ॥३॥