________________
२६
श्रामण्योपनिषद् विशिष्टज्ञानसंवेग-शमसारमतस्तपः । क्षायोपशमिकं ज्ञेय-मव्याबाधसुखात्मकम् ॥९॥
(शार्दूलविक्रीडितम्) दुर्थ्यानं तु भवेन्न यत्र तपसि, स्यान्नेन्द्रियाणां क्षय, आलोकाद् गुरुलाघवस्य न भवेत्, सद्योगहानिस्तथा। कर्तव्यं तप एतदेव भगवद्-ध्यानावियुतं सदा, ब्रह्मध्यानकषायरोधसहितं, शिष्टं भवेल्लङ्घनम् ॥१०॥
॥संयमः॥ संयमकमलाकेलि-कमलेशोपमो परः । श्रिये स्तात् प्रेमसूरीशः, संयमशूरतां गतः ॥१॥
हिंसा-मृषावचः-स्तेया-ब्रह्मपरिग्रहात्मकात् । पञ्चाश्रवाद्विरत्यस्मात्, संयम एष उच्यते ॥२॥ १. अष्टकप्रकरणे ॥१३-८॥