________________
१८
श्रामण्योपनिषद् __ (मालिनी) अलमलमतिसङ्ख्यैः कूटमायाप्रपञ्चैः, सकलसुखविनाशै-दत्तसङ्क्लेशक्लेशैः । हरिणशिशुरिव स्या, बालपारापताभः, सरलसुखसमाधि-स्तेऽस्तु शश्वत् स्वयम्भूः ॥१०॥
॥मुक्तिः ॥ मुक्तिरागेण यो मेने, तृणाय कम्रकन्यकाम् । लोष्ठवत् स्वर्णकोटिं च, तं वज्रस्वामिनं नुमः ॥१॥
मुक्तिमार्गस्य दृष्टा तु, स एव मुनिसत्तमः । ममायितं न यस्यास्ति, साक्ष्यत्राचार आगमः ॥२॥
ममत्वं वस्त्रमात्रेऽपि, देहमात्रेऽपि यस्य सः । नास्ति ज्ञानी फलाभावात्, केवलं दुःखभाजनम् ॥३॥
१. आचाराङ्गे ॥१-२-६/९८॥