________________
१३०
पञ्चसूत्रोपनिषद् साम्प्रतकालीनमायुष्यम्, अयं हि धर्मसाधनावसरः, एतद्विगमे तु क्व पुनरेष संयोगः ? दुर्लभत्वान्मानुष्यस्य, समुद्रपतितरत्नलाभोपमत्वात्तल्लाभस्य ।
... (४) मनुजजन्म यानपात्रम् ... सूत्र : अइप्पभूआ अण्णे भवा दुक्खबहुला, मोहंधयारा, अकुसलाणुबंधिणो, अजुग्गा सुद्धधम्मस्स | जुग्गं च एअं पोअभूअं भवसमुद्दे, जुत्तं सकज्जे निउंजिउं संवरठइअच्छिदं नामकण्णधारं तवपवणजवणं |
दुर्लभो हि मनुजभवः । यद्यत्र न विहिता शुद्धधर्माऽऽराधना, तदा पशु-पक्षि-कीटादिभवप्रायोग्यममकारदिवशवर्त्तिता स्यात्, ततश्च तादृशभवावाप्तिरेव स्यात् । तत्रापि तादृशसंस्कारान्वयेन तिर्यग्भवपरम्पराप्रसूतिः । एवं तीव्रमूर्छादिदोषेणैकेन्द्रियादिभवावतरणमपि सम्भवति, तथा चार्षम् - जया मोहोदओ तिव्वो अण्णाणं खु महब्भयं । पेलवं वेयणीयं तु तया एगिदियत्तणं - इति (बृहत्सङ्ग्रहण्याम्) । एकेन्द्रियेषु त्वतिदीर्घकायस्थितिसद्भावात् क्व पुनर्मनुजभवाधिगमः ? पृथ्वीकायादिकायस्थितिङ्घसङ्ख्यकालीना । सोऽसङ्ख्यकालोऽप्यसङ्ख्योत्सर्पिण्यवसर्पिणीप्रमाणः । तेष्वपि साधारणवनस्पतिकायस्थितिस्त्वनन्तकालचक्रप्रमाणा । इत्थञ्च तत्र गतस्य क्व पुनरेतदवसरप्राप्तिः ? .. .
किञ्चैता दुर्गतयो दुःखबहुलाः । प्रायस्तास्वसातवेदना भवति । तासु निबिडो भवति मोहान्धकारः । प्रकृत्या