________________
पञ्चसूत्रोपनिषद्
१२९ ___अपि च भवतोर्ममोपर्यतीव स्नेहः । इच्छथः सदाप्यवियोगं नः । तच्च दुर्घटम् । मरणान्तत्वादेतत्संयोगस्य । मरणानन्तरं हि गम्यते स्वस्वकर्मानुसारेण पृथक् पृथग् गतौ । किन्तु सम्भूय चरणोपासनेन तु सुदीर्घकालं यावदेष्यद्भवेऽपि भविष्यत्यस्माकमवियोगः, समुदायकृतकर्मणां समुदायफलत्वात् । भवति ह्यग्निप्रभृत्युपद्रवकृत् समुदायो भवान्तरेऽपि तादृशोपद्रवतो मरणयोगी, एवं धर्माराधनाकृत्समुदायस्य प्रशस्तफलाधिगमोऽपि दृष्टव्यः । सम्भवत्येवमामुक्तिं सदातनः संयोगः । अङ्गारमर्दकाचार्यशिष्याणां भवान्तरेऽपि समुदायफलयोगित्वं प्रसिद्धम् ।
(३) विरागसरसीलहरी सूत्र : अण्णहा एगरुक्खनिवासिसउणतुल्लमेों । उद्दामो मच्चू, पच्चासण्णो अ | दुल्लहं मणुअत्तं समुद्दपडिअरयणलाभतुल्लं ।
अन्यथा - भवतोश्चारित्राप्रतिपत्तौ, समुदायकृताऽऽराधनाविरहात्तादृशफलस्याप्यभावः । एवञ्च पारलौकिकसंयोगस्याप्यभावः । ततश्चैकवृक्षनिवासिपक्षिगणतुल्यं स्यादेतत् । प्रगे स्वस्वकार्यवशात् पृथक् पृथग् गमनसाधर्म्यात्, यथोक्तम् - वासवृक्षं समागम्य, विगच्छन्ति यथाऽण्डजाः नियतं विप्रयोगान्तस्तथा भूतसमागमः - इति ।
किञ्च मृत्युरपि सकृदवश्यमागमिष्यति, उद्दामत्वात्, अनिवारितप्रसरत्वाच्च । न हि चतुर्दशरज्जूमितेऽत्र लोके तत्स्थानमस्ति यत्रासम्भवागमो मृत्योः | अपि चाल्पतरं