SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। लक्षणमहाव्रतापेक्षया, तथा चाह,स्थूरप्राणवधविरमणादीनि स्थूरकप्राणिप्राणवधविरमणमादिशब्दात्स्थूरमृषावादादिपरिग्रहः, तत्र तेष्वणुव्रतेषु प्रथममाद्यमिदं खल्विति इदमेव वक्ष्यमाणलक्षणं, शेषाणामस्यैव वस्तुत उत्तरगुणत्वात्, प्रज्ञप्तं वीतरागैः प्ररू. पितमर्हद्भिरिति ॥ थूलगपाणिवहस्साविरई, दुविहो अ सो वहो होइ। संकप्पारंभेहि य,वज्जइ संकप्पओ विहिणा ॥१०७॥ [स्थूरमाणवधस्य विरतिः द्विविधश्वासौ वधो भवति । संकल्पारम्भाभ्यां वर्जयति संकल्पतः विधिना॥१०७॥] स्थूरकप्राणवधस्य विरतिः, स्थूरा एव स्थूरका द्वीन्द्रियादयस्तेषां प्राणाः शरीरेन्द्रियोच्छासायुर्बललक्षणास्तेषां वधः जिघांसनं तस्य विरतिनिवृत्तिरित्यर्थः, द्विविधश्चासौ वधो भवति, कथं संकल्पारम्भाभ्यां, तत्र व्यापादनाभिसंधिः संकल्पः, कृष्यादिकस्त्वारम्भः, तत्र वर्जयति संकल्पतः, परिहरति असौ श्रावकः प्राणवधं संकल्पेन, न त्वारम्भतोऽपि, तत्र नियमात् प्रवृत्तेः, विधिना प्रवचनोक्तेन वर्जयति न तु यथाकथंचिदिति, स चायं विधिः॥ उवउत्तो गुरुमूले संविग्गो इतरं व इयरं वा। अणुदियहमणुसरंतो पालेइ विसुद्धपरिणामो॥१०॥ [उपयुक्तो गुरुमूले संविग्नो इत्वरं इतरहा। अनुदिवसमनुस्मरन् पालयति विशुद्धपरिणामः॥१०८॥]
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy