SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । यस्मादेवं तस्मान्नित्यस्मृत्या सदा अविस्मरणेन बहुमानेन च भावप्रतिबन्धेन चाधिकृतगुणे सम्यक्त्वादौ तथा प्रतिपक्षजुगुप्सया मिथ्यात्वााद्वेगेन, परिणत्यालोचनेन च तेषामेव मिथ्यात्वादीनां । दारुणफला एते इति विपाकालोचनेन चेति ॥ तीत्थंकरभतीए, सुसाहुजणपज्जुवासणाए य । उत्तरगुणसद्धाए, अपमाओ होइ कायबो॥१०५ ॥ [तीर्थकरभक्त्या सुसाधुजनपर्युपासनया च । उत्तरगुणश्रद्धयाप्रमादो भवति कर्तव्यः ॥ १०५॥] तथा तीर्थकरभत्त्या परमगुरुविनयेन, सुसाधुजनपर्युपासनया च भावसाधुसेवनया, तथोत्तरगुणश्रद्धया च सम्यक्त्वे सत्यणुव्रताभिलाषेण तेषु सत्सु महाव्रताभिलाषेणेति भावः, एवमेतेन प्रका- . रेणाप्रमादो भवति कर्तव्य एवमप्रमादवानियमवेदनीयस्यापि कमणोऽपनयति शक्तिमित्येष शुद्धस्य जीववीर्यस्य करणे उपाय इति । __सांप्रतं द्वादशप्रकारं श्रावकधर्ममुपन्यस्यता यदुक्तं पञ्चाणुव्रतादीनीति तान्यभिधित्सुराह ॥ पंच उ अणुब्बयाई थूलगपाणिवहविरमणाईणि । तत्थ पढम इमं खलु पन्नतं वीयरागेहिं ॥ १०६ ॥ [पञ्च त्वणुव्रतानि स्थूलप्राणवधविरमणादीनि । तत्र प्रथमं इदं खलु प्रज्ञप्तं वीतरागैः ॥ १०६॥] पञ्च त्वणुव्रतानि, तुरेवकारार्थः, पञ्चैव, अणुत्वमेषां सर्वविरति
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy