SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ४६ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । नारकादय उत्पद्यन्त इति आह भारतादितीर्थफरादिभिर्व्यभिचारः, न, तेषां प्रायोग्रहणेन व्युदासादिति । शुक्लपाक्षिकद्वारानन्तरं सोपक्रमायुद्धारमाह। देवा नेरइया वा असंखवासाउआ य तिरिमणुया । उत्तमपुरिहा य तहा चरमसरीरा य निरुवकमा७४ [देवा नारकाश्च असंख्येयवर्षायुषश्च तिर्यमनुष्याः। उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः॥४॥] देवा नारकाश्चैते सामान्येनैव । असङ्खयेयवर्षायुषश्च तिर्यमनुप्या एतेन सङ्खयेयवर्षायुषां व्यवच्छेदः । उत्तमपुरुषाश्चक्रवादयो गृह्यन्ते । चरमशरीराश्चाविशेषेणैव तीर्थकरादयः । निरुपकमा इत्येते निरुपक्रमायुष एव अकालमरणरहिता इति । सेसा संसारत्था भइया सोवकमा व इयरे वा। सोवकमनिरुवक्कमभेओ भणिओ समासेणं. ॥७५॥ [शेषाः संसारस्था भाज्याः सोपक्रमा वा इतरे वा। सोपक्रमनिरुपक्रमभेदो भणितः समासेन ॥७५ ॥] शेषाः संसारस्था अनन्तरोदितव्यतिरिक्ताः सङ्घयेयवर्षायुष अनुत्तमपुरुषा अचरमशरीराश्च । एते भाज्या विकल्पनीयाः। कथं सोपक्रमा वा इतरे वा कदाचित्सोपक्रमाः कदाचिन्निरुपक्रमा उभयमप्येतेषु संभवतीति सोपक्रमनिरुपक्रमभेदो भणितः समासेन संक्षेपेण । न तु कर्मभूमजादिविभागविस्तरेणेति । उक्तं सोपक्रमद्वारं तदभिधानाच्च संसारिणो जीवाः सांप्रतं मुक्तानभिधित्सुराह॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy