SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ सटीकभावकप्रज्ञप्त्याख्यप्रकरणं। ४५ जेसिमवष्टोपुग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपरिकआखलु अहिए पुण किन्हपरकीया॥७२॥ [येषामपापुद्गलपरावर्त एव शेषः संसारः। ते शुक्लपाक्षिकाः खलु अधिक पुनः कृष्णपाक्षिकाः७२] येषामुपार्धपुद्गलपरावर्त एव शेषः संसारस्तत ऊर्ध्व सेत्स्यन्ति ते शुक्लपाक्षिकाः क्षीणप्रायसंसाराः खलुशब्दो विशेषणार्थः प्राप्तदर्शना वा अप्राप्तदर्शना वा सन्तीति विशेषयति। अधिके पुनरुपार्धपुद्गलपरावर्ते संसारे कृष्णपाक्षिकाः क्रूरकर्माण इत्यर्थः । पुद्गलपरावर्तो नाम त्रैलोक्यगतपुद्गलानामौदारिकादिप्रकारेण ग्रहणं। उपार्धपुद्गलपरावर्तस्तु किंचिन्यूनोऽर्धपुद्गलपरावर्त इति । एतद्वारोपयोग्ये च वक्तव्यताशेषमाह । पायमिह कूरकम्मा भवसिद्धिया वि दाहिणिल्लेसु। नेरइयतिरियमणुया सुरा य ठाणेसु गच्छंति ॥७३॥ [प्राय इह क्रूरकर्माणः भवसिद्धिका अपि दक्षिणेषु । नारकतिर्यमनुष्याः सुराश्च स्थानेषु गच्छन्ति ॥७३॥] प्राय इह क्रूरकर्माणः । बाहुल्येनैतदेवमिति दर्शनार्थ प्रायोनहणं । भवसिद्धिका अप्येकभवमोक्षयायिनोऽपि दक्षिणेषु नारकतिर्यमनुष्याः सुराश्च स्थानेषुगच्छन्ति। अत एवोक्तं "दाहिणदिशिगामिए किलपक्खिए नेरइए"इत्यादि । एतदुक्तं भवति । नरकभवनद्वीपसमुद्रविमानेषु दक्षिणदिग्भागव्यवस्थितेषु कृष्णपाक्षिका
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy