SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ३९ [यन्मौनं तत्सम्यक् यत्सम्यक् तदिह भवति मौनमिति। निश्चयतः इतरस्यतु सम्यक्त्वं सम्यक्त्वहेतुरपि ॥६१॥] मन्यते जगतस्त्रिकालावस्थामिति मुनिः तपस्वी तद्भावो मौनं अविकलं मुनिवृत्तमित्यर्थः।यन्मौनं तत्सम्यक् सम्यक्त्वं यत्सम्यक् सम्यक्त्वं तदिह भवति मौनमिति । उक्तं चाचाराङ्गे । जं मोणंति पासहा तं सम्मति पासहा । जं सम्मति पासहा तं मोणंति पासहा ॥ इत्यादि निश्चयतः परमार्थेन निश्चयनयमतेनैव एतदेवमिति । जो जहवायं न कुणइ मिच्छट्ठिी तओ हु को अन्नो।.. वड़ेइ य मिच्छत्तं परस्स संकं जणेमाणो॥ इत्यादि वचनप्रामाण्यात् । इतरस्य तु व्यवहारनयस्य सम्यक्त्वं सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादि कारणे कार्योपचारात् । एतदपि शुद्धचेतसां पारम्पर्येणापवर्गहेतुरिति । उक्तं च । जइ जिणमयं पवजह तामा ववहारनिच्छए मुयह। ववहारनयउच्छेए तित्थुच्छेओ जओऽवस्सं ॥ इत्यादीनि वाचकमुख्येनोक्तं “तत्त्वार्थश्रद्धानं सम्यग्दर्शनं" (तत्त्वार्थाधिगमसूत्रम् १-२)।तदपि प्रशमादिलिङ्गमेवेति दर्शयन्नाह ॥ ततत्थसहहाणं सम्मतं तंमि पसममाईया । पढमकसाओवसमादविस्कया हुंति नियमेण ॥६२॥ [तत्त्वार्थश्रद्धानं सम्यक्त्वं तस्मिन्प्रशमादयः । प्रथमकषायोपशमाद्यपेक्षया भवन्ति नियमेन ॥६२॥]
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy