SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सटीक श्रावकप्रज्ञत्याख्यप्रकरणं । १९ नन्नोत्सहते दातुं । लाभान्तरायं तु यदुदयात्सत्यपि प्रसिद्धे दातरि तस्यापि लभ्यस्य भावे याञ्चाकुशलोऽपि न लभते । भोगान्तरायं तु यदुदयात्संति विभवे अन्तरेण विरतिपरिणामं न भुंक्ते भोगान् । एवमुपभोगान्तरायमपि । नवरं भोगोपभोगयोरेवं विशेषः सकृद्भुज्यत इति भोगः आहारमाल्यादिः पुनः पुनरुपभुज्यत इत्युपभोगः भवनवलयादिः । उक्तं च सइ भुजइत्ति भोगो सो उण आहारफुल्लमाईसु । उवभोगो उ पुणो पुण उवभुजइ भुवणवलयाई ॥ वीर्यान्तरायं तु यदुदयान्निरुजो वयस्थश्चाल्पवीर्यो भवति । चित्रं पुंगलरूपं विज्ञेयं सर्वमेवेदं चित्रमनेकरूपं चित्रफलहेतुत्वात, पुद्गलरूपं परमाण्वात्मकं न वासनादिरूपममूर्त मिति, विज्ञेयं ज्ञातव्यं भिनालम्बनं पुनः क्रियाभिधानमदुष्टमेव, सर्वेदं ज्ञानावरणादि कर्मेति ॥ एयरस एगपरिणामसंचियस्स उठिई समरकाया । उक्को सेयरभेया तमहं वुच्छं समासेणं ॥ २७ ॥ एतस्यैकपरिणामसंचितस्य तु स्थितिः समाख्याता । उत्कृष्टेतरभेदात्तामहं वक्ष्ये समासेन ॥ २७ ॥ एतस्य चानन्तरोदितस्य कर्मणः एकपरिणामसंचितस्य तुराब्दस्य विशेषणार्थत्वात्प्रायः क्लिष्टैकपरिणामोपात्तस्येत्यर्थः स्थितिः समाख्याता सांसारिकाशुभफलदातृत्वेनावस्थानं उक्तमागम इति गम्यते । उत्कृष्टेतरभेदादुत्कृष्टा जघन्या च समाख्यातेति भावः
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy