SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६४ सटीकश्रावकमज्ञप्त्याख्यप्रकरणं। श्रमण इवोक्तं न तु श्रमण एवेति यथा समुद्र इव तडागं न तु समुद्र एवेत्यभिप्राय इति । द्वारं उपपातो विशेषक इत्येतदाह ॥ अविराहियसामन्नस्स साहुणो सावगस्स य जहन्नो। सोहंमे उववाओ भणिओ तेलुकदंसीहिं ॥ ३०० ॥ [अविराधितश्रामण्यस्य साधोः श्रावकस्य च जघन्यः । सौधर्मे उपपातो भणितः त्रैलोक्यदर्शिभिः ॥ ३०० ॥ - अविराधितश्रामण्यस्य प्रव्रज्यादिवसादारभ्याखण्डितश्रमणभावस्य साधोः श्रावकस्य च अविराधितश्रावकभावस्येति गम्यते जघन्यः सर्वस्तोकः सौधर्मे प्रथमदेवलोके उपपातो भवति जन्म भणित उक्तः त्रैलोक्यदर्शिभिः सर्वज्ञैरिति ॥ उक्कोसेण अणुतरअनुयकप्पेसु तत्थ तेसि ठिई। - तितीससागराई बावीसं चेव उक्कोसा ॥३०१॥ [उत्कृष्टतोऽनुत्तराच्युतकल्पयोः तत्र तयोः स्थितिः। त्रयस्त्रिंशत्सागराणि द्वाविंशतिश्चोत्कृष्टा॥३०१॥] . उत्कृष्टतोऽनुत्तराच्युतकल्पयोरिति साधोरनुत्तरविमानेषु श्रावकस्याच्युतकल्प उपपात इति द्वारं तत्र तयोरिति तत्रानुत्तरविमानाच्च्युयोस्तयोःसाधुश्रावकयोःस्थितिविशिष्टप्राणसंधारणात्मिका यथासङ्ख्यं त्रयस्त्रिंशत्सागरोपमाणि द्वाविंशतिरित्युत्कृष्टा साधोस्त्रयस्त्रिंशदनुत्तरेषु श्रावकस्य तुद्वाविंशतिरच्युत इति गाथार्थः। पलिओवमप्पुहुतं तहेव पलिओवमं च इयरा उ। दुहुँ पि जहासंखं भणियं तेलुक्कदंसीहिं ॥ ३०२ ॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy