SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ११६ सटीक श्रावकप्रज्ञत्याख्यप्रकरणं । [ एतस्य च यो हेतु: स वधकः तेन तन्निवृत्तिरेवं । वंध्यासुतपिशिताशननिवृत्तितुल्या कथं भवति २०८ ] एतस्य चोपक्रमस्य यो हेतुर्दण्डादिपीडाकरणेन स वधकः असौ हन्ता येन कारणेन तन्निवृत्तिः वधनिवृत्तिः एवं वंध्यासुतपिश - ताशननिवृत्तितुल्या कथं भवति सविषयत्वाद्वधनिवृत्तेरिति ॥ अधुनान्यद्वादस्थानकम् अन्ने भांति कम्मं जं जेण कयं स भुंजइ तयं तु । चित्तपरिणामरूवं अणेगसहकारिताविक्खं ॥ २०९ ॥ [ अन्ये भणन्ति कर्म यद्येन कृतं स भुंक्ते तदेव । चित्रपरिणामरूपं अनेक सहकारिसापेक्षम् ॥ २०९ ॥ ] अन्ये भणन्ति कर्म ज्ञानावरणादि यद्येन कृतं प्राणिना स भुंक्ते तदेव चित्रपरिणामरूपं कर्मानेकसहकारिसापेक्षं अस्मादिदं प्राप्तव्यमित्यादिरूपमिति । तक्कंयसहकारितं पवज्जमाणस्स को वहो तस्स । तस्सेव तओ दोसो जं तह कम्मं कयमणेणं ॥ २१० ॥ [ तत्कृतसहकारित्वं प्रपद्यमानस्य को वधस्तस्य । तस्यैव असौ दोषः यत्तथा कर्म कृतमनेन ॥ २१० ॥ ] तत्कृतसहकारित्वं व्यापाद्यकृतसहकारित्वं प्रपद्यमानस्य को - वधस्तस्य व्यापादकस्य तस्यैव व्यापाद्यस्यासौ दोषो यत्तथा कर्म अस्मान्मया मर्तव्यमिति विपाकरूपं कृतमनेन व्यापाद्येनेति । एतदेव समर्थयति ।
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy