SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्याख्यप्रकरणं । अनुपक्रमतः औषधोपक्रममन्तरेण नश्यत्यपैति कालेनात्मीयेनैव उपक्रमेण क्षिप्रमपि नश्यति साध्ये रोगे इयं स्थितिः कालेनैवासाध्य उभयमत्र न संभवति साधासाध्यं तथा कर्म साध्ये उभयं असाध्ये एक एव प्रकार इति।साध्यासाध्ययोरेव स्वरूपमाह सोवक्कममिह सज्झं इयरमसज्झं ति होइ नायवं । सज्झासज्झविभागो एसो नेओ जिणाभिहिओ २०६ [सोपक्रममिह साध्यं इतरवदसाध्यमेव भवति ज्ञातव्यम्। साध्यासाध्यविभागः एष ज्ञेयः जिनाभिहितः॥२०६॥] सोपक्रममिह साध्यं तथाविधपरिणामजनितत्वात् इतरन्निरुपक्रममसाध्यमेव भवति ज्ञातव्यं साध्यासाध्यविभागः एष ज्ञेयो जिनाभिहितस्तीर्थकरोक्त इति । निगमयन्नाह . आउस्स उवक्कमणं सिद्धं जिणवयणओ य सद्धेयं । जं छउमथो सम्मं नो केवलिए मुणइ भावे ॥२०७॥ [आयुष उपक्रमणं सिद्धं जिनवचनाच अडेयम् । यच्छद्मस्थः सम्यग्न केवलिकान जानाति भावान्॥२०७॥ आयुष उपक्रमणं सिद्धमुक्तन्यायात् जिनवचनाच्च भवति श्रद्धेयं किमित्यत्रोपपत्तिमाह यद्यस्माच्छद्मस्थः अर्वाग्दी सम्यगशेषधर्मापेक्षया न केवलज्ञानगम्यान मुणति भावान् जानाति पदार्थानिति । प्रकृतयोजनायाह एयस्स य जो हेऊ सो वहाओ तेण तन्निवित्तीय। वंझासुयपिसियासणनिवितितुला कहं होइ ॥२०॥
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy