SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । ११३ भिन्नो जहेह कालो तुले वि पहमि गइविसेसाओ सत्थे व गहणकालो मइमेहाभेयओ भिन्नो ॥२०१॥ [भिन्नो यथेह कालः तुल्येऽपि पथि गतिविशेषात् । शास्त्रे वा ग्रहणकालो मतिमेधाभेदाद्भिन्नः ॥२०१॥] भिन्नो यथेह कालो ऽर्धप्रहरादिलक्षणस्तुल्ये ऽपि पथि समाने योजनादौ मार्गे गतिविशेषाद्गमनविशेषेण शीघ्रगतिरर्धग्रहरेण गच्छति मध्यमः प्रहरेणेत्यादि । शास्त्रे वा व्याकरणादौ ग्रहणकालो मतिमेधाभेदाद्भिन्नः कश्चिद्वादशभिवः तदधीते कश्चिद्वर्षद्वयेनेत्यादि ॥ एष दृष्टान्तोऽयमर्थोपनयः। . .... तह तुलंमि वि कम्मे परिणामाइकिरियाविसेसाओ। भिन्नो अणुभवकालो जिट्ठो मज्झो जहन्नो य॥२०२॥ [तथा तुल्येऽपि कर्मणि परिणामादिक्रियाविशेषात् । भिन्नोऽनुभवकालः ज्येष्ठः मध्यः जघन्यश्च ॥ २०२॥] तथा तुल्येऽपि कर्मणि कर्मद्रव्यतया परिणामादिक्रियाविशेषात्तीव्रतीव्रतरपरिणामबाह्यसंयोगक्रियाविशेषेण भिन्नोऽनुभवकालः कर्मणः कथं ज्येष्ठो मध्यो जघन्यश्च ज्येष्ठो निरुपक्रमस्य यथाबद्धवेदनकालः मध्यस्तस्यैव तथाविधतपश्चरणभेदेने जघन्यः क्षपकश्रेण्यनुभवनकालः शैलेस्यनुभवनकालो वा तथाविधपरिणामबद्धस्य तत्तत्परिणामानुभवनेन अन्यथा विरोध इति दृष्टान्तान्तरमाह। १ वेदने.
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy