SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११२ . सटीकश्रावकप्रज्ञप्त्याख्यप्रकरणं । णत्वात् कर्मणः असङ्ख्यातभवार्जितं हि विचित्रगतिहेतुत्वान्नारकादिनानागतिकारणमेव भवतीति । तत्र नाणाभवाणुभवणाभावा एगंमि पज्जएणं वा अणुभवओ बंधाओ मुकाभावो सचाणिट्ठो॥१९९॥ [नानाभवानुभवनाभावादेकस्मिन् पर्यायतो वा। अनुभवतः बन्धात् मोक्षाभावः स चानिष्टः॥ १९९॥] नानाभवानुभवनाभावादेकस्मिन् तथाहि नानुपक्रमतो नारकादिनानाभवानुभवनमेकस्मिन् भवे पर्यायतो वानुभवतः विपाकानुभवक्रमेण वा क्षपयतः बन्धादिति नारकादिभवेषु चारित्राभावेन प्रभूततरबन्धान्मोक्षाभाव आपद्यते स चानिष्ट इति । निदर्शनगभंमुपपत्त्यन्तरमाह। किंचिदकाले वि फलं पाइज्जइ पच्चए य कालेण । तह कम्मं पाइज्जइ कालेण विपञ्चए चनं ॥२०॥ [किंचिदकालेऽपि फलं पाच्यते पच्यते च कालेन । तथा कर्म पाच्यते कालेन विपच्यते चान्यत् ॥२०० ॥ किञ्चिदकालेऽपि पाककालादारतोऽपि फलमाम्रफलादि पाच्यते गर्ताप्रक्षेपकोद्रवपलालस्थगनादिनोपायेन पच्यतेच कालेन किंचित्तत्रस्थमेव स्वकालेन पच्यते । यथेदं तथा कर्म पाच्यते उपक्राम्यते विचित्रैरुपक्रमहेतुभिः कालेन विपच्यते चान्यत् विशिष्टानुपक्रमहेतन्विहाय विपाककालेनैव विपाकं गच्छतीति । दृष्टान्तान्तरमाह १ नारकादीनामनुभवनमेकस्मिन् मनुष्यादिभवे.
SR No.022058
Book TitleShravak Pragnapti
Original Sutra AuthorN/A
AuthorKeshavlal Premchandra
PublisherNirnaysagar Press
Publication Year1905
Total Pages228
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy