SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ધર્મસંગ્રહ ભાગ-૫ | દ્વિતીય અધિકાર | શ્લોક-૧ર ૧૨ जइवि पडिलेहणाए, हेऊ जिअरक्खणं जिणाणा य । तहवि इमं मणमक्कडनिजंतणत्थं मुणी बिंति ।।५।।" इति । आवश्यकानि २५ “दुओणयं अहाजायं, किइकम्मं बारसावयं । चउस्सिरं तिगुत्तं च, दुपवेसं इगनिक्खमणं ।।१।।" [आव नि. १२०२] ति । द्वे अवनमने-'इच्छामि खमासमणो वंदिउं जावणिज्जाए निसीहिआए' इत्यभिधाय गुरोश्छन्दोऽनुज्ञापनाय प्रथममवनमनम् ।।१।। यदा पुनः कृतावर्तो निष्क्रान्त इच्छामीत्यादिसूत्रमभिधाय पुनश्छन्दोऽनुज्ञापनायैव तदा द्वितीयम् ।।२।। तथा यथाजातं-जातं-जन्म, तच्च द्वेधा-प्रसवः प्रव्रज्याग्रहणं च तत्र प्रसवकाले रचितकरसंपुटो जायते, प्रव्रज्याकाले च गृहीतरजोहरणमुखवस्त्रिक इति, अत एव रजोहरणादीनां पञ्चानां शास्त्रे यथाजातत्वमुक्तम् । तथा च तत्पाठः“पंच अहाजायाई, चोलपट्टो १ तहेव रयहरणं २ । उण्णिअ ३ खोमिअ ४ निस्सिज्जजुअलं तहय मुहपत्ती ।।१।।" यथा जातम् अस्य स यथाजातस्तथाभूत एव वन्दते इति वन्दनमपि यथाजातम् ३ । तथा द्वादशावर्ताः-कायचेष्टाविशेषा गुरुचरणन्यस्तहस्तशिरःस्थापनारूपा यस्मिन् तद्द्वादशावतम्, इह च प्रथमप्रविष्टस्य 'अहोकायं' इत्यादिसूत्रोच्चारणगर्भाः षडावर्त्ता; निष्क्रम्य पुनः प्रविष्टस्यापि त एव षडिति द्वादश १५ । चत्वारि शिरांसि यस्मिन् तच्चतुःशिरः, प्रथमप्रवेशे क्षमणाकाले शिष्याचार्ययोरवनमच्छिरोद्वयं, निष्क्रम्य पुनः प्रवेशे तथैव शिरोद्वयम् १९ । त्रिगुप्तं मनोवाक्कायकर्मभिर्गुप्तम् २२ । तथा प्रथमोऽनुज्ञाप्य प्रवेशो द्वितीयः पुनर्निर्गत्य प्रवेश इति द्वौ प्रवेशौ यत्र तद् द्विप्रवेशम् २४ । एकं निष्क्रमणमावश्यिक्या निर्गच्छतो यत्र तदेकनिष्क्रमणम् २५ । तथा षट् स्थानानि शिष्यस्य
SR No.022043
Book TitleDharm Sangraha Part 05
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy