________________
૧૧૮
- धर्मग्र लाग-४ | द्वितीय अधिक्षार | PRTs-११ तथा 'धर्मवरचातुरन्तचक्रवर्तिभ्यः' । धर्मः प्रस्तुत एव, त्रिकोटिपरिशुद्धत्वेन सुगतादिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन चक्रवादिचक्रापेक्षया च वरं-प्रधानं, चतसृणां गतीनां नारकतिर्यग्नराऽमरलक्षणानामन्तो यस्मात् तच्चतुरन्तं, चक्रमिव चक्रं रौद्रमिथ्यात्वादिभावशत्रुलवनात्, तेन वर्तन्त इत्येवंशीला धर्मवरचतुरन्तचक्रवर्तिनः । चाउरंते'ति समृद्ध्यादित्वादात्त्वम्, धर्मदत्वादिभिः स्तोतव्यसम्पद एव विशेषोपयोगसम्पदुक्ता । इदानीं“सर्वं पश्यतु वा मा वा, तत्त्वमिष्टं तु पश्यतु। कीटसङ्ख्यापरिज्ञानं, तस्य नः क्वोपयुज्यते? ।।१।।" [प्रमाणवार्तिक ।१-३३]
इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्त्वदर्शनवादिनः सौगतान प्रतिक्षिपति-'अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं' । 'अप्रतिहते' सर्वत्राप्रतिस्खलिते 'वरे' क्षायिकत्वात् प्रधाने 'ज्ञानदर्शने' विशेषसामान्यावबोधरूपे धारयन्तीति अप्रतिहतवरज्ञानदर्शनधरास्तेभ्यः', अप्रतिहतवरज्ञानदर्शनधरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोग-युक्तस्य भवन्तीति ज्ञापनार्थमिति ।
एते च कैश्चित्तत्त्वतः खल्वव्यावृत्तच्छद्मान एवेष्यन्ते । यदाहुः"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ।।१।। तथादग्धेन्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् ।
मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्यम् ।।१।।" [सिद्धसेन० द्वात्रिंशिका २ ।१८] इति ।
तनिवृत्त्यर्थमाह-व्यावृत्तच्छद्मभ्यः' । छादयतीति च्छद्म-ज्ञानावरणादिघातिकर्म तबन्धयोग्यतालक्षणो भवाधिकारश्च, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाक्षीणे संसारे अपवर्गः क्षीणे जन्मपरिग्रह इत्यसत् हेत्वभावात् न च तीर्थनिकारजन्मा पराभवो हेतुः, तेषां मोहाभावात्, मोहे वा अपवर्ग इति प्रलापमात्रम्, एवमप्रतिहतवर-ज्ञानदर्शनधरत्वेन व्यावृत्तच्छद्मतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पत् ।
एते च कल्पिताविद्यावादिभिः परमार्थेनाजिनादय एवेष्यन्ते, 'भ्रान्तिमात्रमसदविद्या' [] इति वचनात् । एतद्व्यपोहायाह-'जिणाणं जावयाणं' रागादिजेतृत्वाज्जिनाः न च रागादीनामसत्त्वम्, प्रतिप्राण्यनुभवसिद्धत्वात् न चानुभवोऽपि भ्रान्तः, सुखदुःखाद्यनुभवेष्वपि भ्रान्तिप्रसङ्गात् एवं च जेयसम्भवाज्जिन