SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ६५७ धर्भसंग्रह भाग-४ द्धितीय मधिशार/ श्लो-११ तथा 'मार्गदेभ्यः' । इह मार्गो भुजङ्गमगमननलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषः, ‘हेतुस्वरूपफलशुद्धा सुखे'त्यन्ये अस्मिन्नसति न यथोचितगुणस्थानावाप्तिः, मार्गविषमतया चेतःस्खलनेन प्रतिबन्धोपपत्तेः मार्गश्च भगवद्भ्य एवेति मार्ग ददतीति मार्गदाः । तथा 'शरणदेभ्यः' । इह शरणं भयार्त्तत्राणम्, तच्च संसारकान्तारगतानामतिप्रबलरागादिपीडितानां दुःखपरम्परासङ्क्लेशविक्षोभतः समाश्वासनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं, 'विविदिषे'त्यन्ये अस्मिंश्च सति तत्त्वगोचराः शुश्रूषाश्रवणग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशाः प्रज्ञागुणा भवन्ति, तत्त्वचिन्तामन्तरेण तेषामभावात् संभवन्ति तामन्तरेणापि तदाभासाः, न पुनः स्वार्थसाधकत्वेन भावसाराः तत्त्वचिन्तारूपं च शरणं भगवद्भ्यः एव भवतीति शरणं ददतीति शरणदाः । तथा 'बोधिदेभ्यः' । इह बोधिर्जिनप्रणीतधर्मप्राप्तिः, इयं पुनः यथाप्रवृत्ताऽपूर्वाऽनिवृत्तिकरणत्रयव्यापाराभिव्यङ्ग्यमभिन्नपूर्वग्रन्थिभेदतः पश्चानुपूर्व्या प्रशमसंवेगनिर्वेदाऽनुकम्पाऽऽस्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुच्यते, 'विज्ञप्ति'रित्यन्ये । पञ्चकमप्येतदपुनर्बन्धकस्य, पुनर्बन्धके यथोदितस्यास्याभावात् । एते च यथोत्तरं पूर्वपूर्वफलभूताः, तथाहि-अभयफलं चक्षुः, चक्षुःफलं मार्गो, मार्गफलं शरणम्, शरणफलं बोधिः सा च भगवद्भ्य एव भवतीति बोधिं ददतीति बोधिदाः । एवमभयदानचक्षुर्दानमार्गदानशरणंदानबोधिदानेभ्य एव यथोदितोपयोगसिद्धरुपयोगसम्पद एव हेतुसम्पदुक्ता । साम्प्रतं स्तोतव्यसम्पद एव विशेषेणोपयोगसम्पदुच्यते 'धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं' । 'धर्मदेभ्यः', इह धर्मश्चारित्रधर्मो गृह्यते, स च यतिश्रावकसम्बन्धिभेदेन द्वेधा, यतिधर्मः सर्वसावद्ययोगविरतिलक्षणः, श्रावकधर्मस्तु देशविरतिरूपः स चायमुभयरूपोऽपि भगवद्भ्य एव, हेत्वन्तराणां सद्भावेऽपि भगवतामेव प्रधानहेतुत्वादिति धर्म ददतीति धर्मदाः । धर्मदत्वं च धर्मदेशनाद्वारेणैव भवति, नान्यथेत्याह-'धर्मदेशकेभ्यः', धर्मं प्रस्तुतं यथाभव्यमवन्ध्यतया देशयन्तीति धर्मदेशकाः । तथा 'धर्मनायकेभ्यः' । धर्मोऽधिकृत एव तस्य नायका स्वामिनः, तद्वशीकरणभावात् तदुत्कर्षावाप्तेस्तत्प्रकृष्टफलभोगात् तद्विधातानुपपत्तेश्च 'धर्मसारथिभ्यः' प्रस्तुतस्य धर्मस्य स्वपरापेक्षया सम्यक्प्रवर्त्तनपालनदमनयोगतः सारथयो धर्मसारथयः।
SR No.022042
Book TitleDharm Sangraha Part 04
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages218
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy