SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ૧૧૫ धर्भसंग्रह भाग-२ | दितीय अधिकार | RI5-२२ * संज्वलनकषायोदयाद्वा स्थाने संज्वलनादिकषायोदयात् वा पा8 मे. संवेगो मोक्षाभिलाषः, सम्यग्दृष्टिर्हि नरेन्द्रसुरेन्द्राणां विषयसुखानि दुःखानुषङ्गादुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यतेऽभिलषति च । यदाह - "नरविबुहेसरसुक्खं, दुक्खं चिअ भावओ अ मन्नंतो । संवेगओ न मोक्खं, मोत्तूणं किंचि पत्थेइ ।।२।।" [धर्मसंग्रहणी ८०९, श्रावकप्रज्ञप्ति गा. ५६, विंशतिविंशिका ६/११] त्ति । निर्वेदो भववैराग्यम्, सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथा कदर्थ्यमानः प्रतिकर्तुमक्षमो ममत्वरहितश्च दुःखेन निर्विण्णो भवति । यदाह - "नारयतिरिअनरामरभवेसु निव्वेअओ वसइ दुक्खं । अकयपरलोअमग्गो, ममत्तविसवेगरहिओ अ ।।१।।" [धर्मसंग्रहणी ८१०/विंशतिविंशिका ६/१२, श्रावक प्रज्ञप्ति ५७] अन्ये तु संवेगनिर्वेदयोरर्थविपर्यासमाहुः-संवेगो भवविरागः निर्वेदो मोक्षाभिलाष इति ३ । अनुकम्पा दुःखितेष्वपक्षपातेन दुःखप्रहाणेच्छा, पक्षपातेन तु करुणा पुत्रादौ व्याघ्रादीनामप्यस्त्येव सा चानुकम्पा द्रव्यतो भावतश्चेति द्विधा । द्रव्यतः सत्यां शक्तौ दुःखप्रतीकारेण, भावतश्चार्द्रहृदयत्वेन । यदाह - “दट्टण पाणिनिवहं, भीमे भवसागरंमि दुक्खत्तं । अविसेसओऽणुकंपं, दुहावि सामत्थओ कुणइ ।।४।।" [श्रावकप्रज्ञप्ति ५८, विंशतिविंशिका ६/१२, धर्मसंग्रहणी ८११] त्ति । अस्तीति मतिरस्येत्यास्तिकस्तस्य भावः कर्म वा आस्तिक्यम्, तत्त्वान्तरश्रवणेऽपि जिनोक्ततत्त्वविषये निराकाङ्क्षा प्रतिपत्तिः, तद्वान् हि आस्तिक इत्युच्यते । यदाह - "मण्णइ तमेव सच्चं, नीसंकं जं जिणेहि पण्णत्तं । सुहपरिणामो सम्मं, कंखाइविसुत्तिआरहिओ ।।५।।" [विंशतिविंशिका ६/१४, श्रावकप्रज्ञप्ति ५९, धर्मसंग्रहणी ८१२] त्ति । यत्राप्यस्य मोहवशात् क्वचन संशयो भवति, तत्राप्यप्रतिहतेयमर्गला श्रीजिनभद्रगणिक्षमाश्रमणोदिता । "कत्थय मइदुब्बलेणं, तब्विहआयरिअविरहओ वावि । नेअगहणत्तणेण य, नाणावरणोदएणं च ।।१।।
SR No.022040
Book TitleDharm Sangraha Part 02
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2012
Total Pages300
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy