SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १०८ ॥ || १०९ ॥ ।। ११०॥ ।। १११ ॥ ॥ ११२ ॥ ॥ ११३॥ पारिभद्रे द्रुकिलिमं, किलिमं देववल्लभः । दारुका स्नेहविद्धं च, देवद्रुः स्वर्गतो द्रुमः पीतपूतिमहादेवभद्रेन्द्रा काष्ठदारुणी। मधूके मधुशाक: स्यान्माधवो मधुको मधुः मधुष्ठीलो मधुष्ठालो, मधुकाष्ठो मधुस्रवः । रोधः कोषमधुर्गुण्डपुष्पो गोलफलोऽपि च जलजेऽस्मिन्मधूलः स्याद्गिरिजो दीर्घपत्रकः । तीरवृक्षो गौरशाको, इस्वपुष्पफलोऽपि च तिन्दुके स्फूर्जनस्तुष्टः, कालस्कन्धो विरूपकः । नि:स्यन्दनः कालशाको, द्रावणो नीलसारक: द्वितीयतिन्दुके कालस्तिन्दुर्मर्कटतिन्दुकः । काकेन्दुक: काकपीलुः, कृपालुकुलकावपि रोधे लोध्रः सिते तत्र, शाबरस्तनुवल्कलः । उत्सादनो महारोधोऽनम्भः शम्बरपादपः रक्ते तु पट्टिका तिल्वः, पट्टी लाक्षा प्रसादनः । तिरीटो मार्जनश्चिल्ली, कानीनः क्रमुकः शिशुः स्थूलवल्को बृहत्पत्रः, कृष्णरोधे तु गालवः । भूजे भुजो बहुपुये, मृदुवल्को मृदुच्छदः रेखापत्रश्छत्रपत्रो, बहुत्वक्चर्मिणावपि । श्लेष्मान्तके भूतवृक्षः, पिच्छिलो द्विजकुत्सितः वसन्तकुसुमः शेलुः, कफेलुर्लेखशाटकः । विषघाती बहुवारः, शीत उद्दालक: शलुः लकुचे लकुटो ग्रन्थिफलाम्बुपनसा महुः । लघुत्वक् क्षुद्रपनसस्तनु स्यात्कुब्जकं फलम् ॥ ११४ ॥ ॥ ११६॥ ॥ ११७ ॥ ॥ ११८॥ ॥ ११९ ॥ 3१२ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy