SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org क्रव्यात् कर्बुनैर्ऋतावसृक्पो वरुणस्त्वर्णवमन्दिरः प्रचेताः । जलयादः पतिपाशिमेघनादा जलकान्तारः स्यात् परञ्जनश्च ॥ १०२ ॥ श्रीदः सितोदरकुहेशसखाः पिशाचकीच्छावसुस्त्रिशिरऐलविलैकपिङ्गाः । पौलस्त्यवैश्रवणरत्नकरा: कुबेरयक्षौ नृधर्मधनदौ नरवाहनश्च १०३ ॥ कैलासौका यक्षधननिधिकिंपुरुषेश्वरः । विमानं पुष्पकं चैत्ररथं वनं पुरी प्रभा अलका वस्वोकसारा सुतोऽस्य नलकूबरः । वित्तं रिक्थं स्वापतेयं राः सारं विभवो वसु द्युम्नं द्रव्यं पृक्थमृक्थं स्वमृक्णं द्रविणं धनम् । हिरण्यार्थी निधानं तु कुनाभिः शेवधिर्निधिः महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ 1 मुकुन्दकुन्दनीलाश्च चर्चाश्च निधयो नव यक्षः पुण्यजनो राजा गुह्यको वटवास्यपि । किंनरस्तु किंपुरुषस्तुरङ्गवदनो मयुः शंभुः शर्व: स्थाणुरीशान ईशो रुद्रोड्डीशौ वामदेवो वृषाङ्कः । कण्ठेकालः शंकरो नीलकण्ठः श्रीकण्ठोग्रौ धूर्जटिर्भीमभग १०९ ॥ मृत्युञ्जयः पञ्चमुखोऽष्टमूर्तिः श्मशानवेश्मा गिरिशो गिरीशः । षण्ढः कपर्दीश्वर ऊर्ध्वलिङ्ग एकत्रिदृग्भालहगेकपादः ॥ ११० ॥ मृडोsट्टहासी घनवाहनोहिर्बुध्नो विरूपाक्षविषान्तकौ च । महाव्रती वह्निहिरण्यरेताः शिवोऽस्थिधन्वा पुरुषास्थिमाली ॥ १११ ॥ स्याद् व्योमकेशः शिपिविष्टभैरवौ दिक्कृत्तिवासा भवनीललोहितौ । सर्वज्ञनाट्यप्रियखण्डपर्शवो महापरा देवनटेश्वरा हरः ॥ १०८ ॥ ॥ ११२ ॥ पशुप्रमथभूतोमापतिः पिङ्गजटेक्षणः । पिनाकशूलखट्वाङ्गगङ्गाहीन्दुकपालभृत् h Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ १०४ ॥ ॥ १०५ ॥ ॥ १०६ ॥ ॥ १०७ ॥ ॥ ११३ ॥
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy