SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ८४॥ नियमाः शौचसन्तोषौ स्वाध्यायतपसी अपि । देवताप्रणिधानं च करणं पुनरासनम् ॥ ८२ ॥ प्राणायामः प्राणयमः श्वासप्रश्वासरोधनम्। प्रत्याहारस्त्विन्द्रियाणां विषयेभ्य: समाहृतिः ।। ८३ ।। धारणा तु क्वचिद्धयेये चित्तस्य स्थिरबन्धनम् । ध्यानं तु विषये तस्मिन्नेकप्रत्ययसंततिः समाधिस्तु तदेवार्थमात्राभासनरूपकम् । एवं योगो यमाद्यङ्गैरष्टभिः सम्मतोऽष्टधा ॥ ८५ ॥ श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयसं श्रेयः । क्षेमं भावुकभविककुशलमङ्गलभद्रमद्रशस्तानि ॥८६॥ द्वितीयो देवकाण्ड: स्वर्गस्त्रिविष्टपं द्योदिवौ भुविस्तविषताविषौ नाकः । गास्त्रिदिवमूर्ध्वलोकः सुरालयस्तत्सदस्त्वमराः देवाः सुपर्वसुरनिर्जरदेवतर्भुबहिर्मुखानिमिषदैवतनाकिलेखाः । वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः स्वाहास्वधाक्रतुसुधाभुज आदितेयाः गीर्वाणा मरुतोऽस्वप्ना विबुधा दानवारयः । तेषां यानं विमानोऽन्ध: पीयूषममृतं सुधा ॥३॥ असुरा नागास्तडितः सुपर्णका वह्नयोऽनिलाः स्तनिताः । उदधिद्वीपदिशो दश भवनाधीशाः कुमारान्ताः स्युः पिशाचा भूता यक्षा राक्षसाः किन्नरा अपि । किंपुरुषा महोरगा गन्धर्वा व्यन्तरा अमी ज्योतिष्काः पञ्च चन्द्रार्कग्रहनक्षत्रतारकाः । वैमानिकाः पुनः कल्पभवा द्वादश ते त्वमी ॥ ४ ॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy