SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ७० ॥ ।। ७१ ॥ ॥ ७२ ।। ॥७३॥ ॥ ७४॥ ॥ ७५ ॥ चित्रकृत्त्वमद्भुतत्वं तथानतिविलम्बिता । अनेकजातिवैचित्र्यमारोपितविशेषता सत्त्वप्रधानतावर्णपदवाक्यविविक्तता । अव्युच्छित्तिरखेदित्वं पञ्चत्रिंशच्च वाग्गुणाः अन्तराया दानलाभवीर्यभोगोपभोगगाः । हासो रत्यरती भीतिर्जुगुप्सा शोक एव च कामो मिथ्यात्वमज्ञानं निद्रा चाविरतिस्तथा । रागो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः । शिवं नि:श्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् । मुक्तिर्मोक्षोपवर्गोथ मुमुक्षुः श्रमणो यतिः वाचंयमो यती साधुरनगार ऋषिमुनिः । निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः । अभाषणं पुनर्मोनं गुरुर्धर्मोपदेशक: अनुयोगकृदाचार्य उपाध्यायस्तु पाठकः । अनूचानः प्रवचने साङ्गेऽधीती गणिश्च सः शिष्यो विनेयोन्तेवासी शैक्षः प्राथमकल्पिकः । सतीर्थ्यास्त्वेकगुरखो विवेकः पृथगात्मता एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः । स्यात्पारम्पर्यमाम्नायः संप्रदायो गुरुक्रमः व्रतादानं परिव्रज्या तपस्या नियमस्थितिः । अहिंसासूनृतास्तेयब्रह्माकिञ्चनता यमा: ॥७६ ॥ ॥ ७७॥ ॥७८ ॥ ॥ ७९ ॥ ॥ ८० ॥ ॥ ८१ ॥ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy