SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सेरौ मादू भवेदेरी बहुत्वे भि दपां ततः । वसां रसे पुनश्चः कुर्दिशाम् षोडः पदं द्विकम् नाम्नो नो लोपशधौ संयोगान्तस्यैककं पदम् । स्कोराद्योश्च स्रोर्विसर्गः सस्तावणश्च द्वयक्षरम् ओडीतिः हि पदान्ते च तु रो रात्रिषु दोषामथ च धातोश्च । झस एव च नशे हो ढो दादेर्घो नहो ध इत्यपि च भवेच्छशषराजादेः षः षढोः कस्स एव च । सस्तोनपि दिपि स्याच्च सिपि वा दः स इत्यपि खसे चपा झसानां स्यात् त्रिपदं च झबे जबाः । वावसाने इदं सूत्रं द्विपदं चतुरक्षरम् Acharya Shri Kailassagarsuri Gyanmandir आदिजबानां झभान्तस्य झभाः स्ध्वोश्च चतुः पदम् । तथोर्धोऽधोऽव्ययाद्विभक्तेर्लुग्वाऽस्मिन् पदत्रयम् एकपदं समासप्रत्यययोः स्यादलुक्क्वचित् । भवेदयाऽव्ययीभावादतोमनत एव तत् पञ्चाक्षरं च वा टाड्योर्द्विपदं स नपुंसकम् । एकत्वे द्विगु द्वन्द्वौ च सूत्राणि युष्मदस्मदी षट्सप्ततिश्च वर्तन्ते लिङ्गार्थे प्रथमा मता । आमन्त्रणे ततः सिधि-द्विपदं भो भगो अघोस् शेषाः कार्ये इतीदं यद् अष्टाविंशतिरक्षरम् । विना सहेति सूत्रं यत् तच्च सप्तदशाक्षरम् कर्तृकारणयोरक्ता-दौ कृति षष्ठी चतुःपदं सूत्रम् । अन्योक्ते प्रथमा स्युः कारकसूत्राणि चाऽष्टौ हि अपत्येऽण् अत इञनृषेर्ण्यायनणित्यदः । अष्टादशाक्षरं सूत्रं लुग्बहुत्वे क्वचित्ततः ३८१ For Private And Personal Use Only ॥ ३६ ॥ ॥ ३७ ॥ ॥ ३८ ॥ ॥ ३९ ॥ ॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥ ॥ ४४ ॥ ॥ ४५ ॥ ॥ ४६ ॥ ॥ ४७ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy