SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org धान्यं शस्यं च तद्भेदा, मुद्गगोधूमतण्डुला । अमत्रं भाजनं पात्रं, पण्यं भाण्डक्रयाणके वर्तनं जीवनं वृत्ति-र्वार्ता जीवश्च जीविका । मूलद्रव्यं परिपणो, नीवीलाभोऽधिकं फलम् सत्यापनं सत्यंकारो, मूल्यं वस्नोऽप्यवक्रयः । संपत्तिः श्रीर्विभूतिश्च, लक्ष्मीसंपत्समृद्धयः श्रीमान् समृद्धो लक्ष्मीवानिभ्य आढ्यो धनेश्वरः । आपद्विपद्विपत्तिश्च, दरिद्रो निःस्वनिर्धनौ कदर्यः कृपणो लोभी, बद्धमुष्टिर्मितंपचः । गोकुलं तु व्रजो घोषो, गोष्टं गोपालवल्लभः दुग्धं पयोऽमृतं क्षीरं, गोरसः क्षीरजं दधि । घृतमाज्यं हविः सर्पिः, नवनीतं तु प्रक्षणम् उदश्विन्मथितं तकं, आरनालं तु काञ्जिकम् । हविष्यान्नं च क्षैरेयी, परमान्नं च पायसम् घृतपक्वं तु पक्वान्नं, घृतपूरादिभेदवत् । सूपः स्यात्प्रहितं सूदोन्धः कूरं भक्तमोदनम् व्यञ्जनं तेमनं शाकः, पूपऽपूपौ च पोलिका । भोजनं जेमनाहारी, भक्षणं खादनाशने पिपासा तृट् तृषोदन्या, बुभुक्षा क्षुत् क्षुधा रुचिः । खण्डस्तु मधुधूलिः स्यात्, मत्स्यण्डी फाणितं वरा सितोपला शर्करा च, सिताथेक्षुरसो गुडः । प्रजा लोकाः प्रकृतयो, जनाः पौराश्च नागराः क्षेत्राजीवी कृषिकश्च कर्षकश्च कृषीवलः । क्षेत्रं वप्रश्च केदारो, हलं सीरच लाङ्गलम् 360 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ३८४ ॥ ॥ ३८५ ॥ ॥ ३८६ ॥ ॥ ३८७ ।। ।। ३८८ ।। ।। ३८९ ॥ ॥ ३९० ॥ ॥ ३९१ ॥ ॥ ३९२ ॥ ॥ ३९३ ॥ ॥ ३९४ ॥ ॥ ३९५ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy