SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २२१ ॥ ॥ २२२ ॥ ॥ २२३ ॥ ॥ २२४ ॥ ॥ २२५ ॥ ॥ २२६॥ शिरोधिः कन्धरा ग्रीवा, धमनिश्च शिरोधरा । उरो हृद् हृदयं वक्षः, स्तनान्तरभुजान्तरे स्तनौ कुचावुरोजौ च, वक्षोजौ च पयोधरौ । उदरं जठरं तुण्डं, पिचण्डं कुक्षिरेव च त्रिवलिस्तूदरे रेखा, नाभिः स्यात् तुन्दकूपिका । अङ्कस्तु क्रोड उत्संगः, पृष्ठं वंशस्त्रिकं तथा मध्योऽवलग्नं विलग्नं, मध्यमो लङ्क एव च । काञ्चीपदं कटिः श्रोणिः, कटीरं च ककुद्मती अधो नितम्ब आरोहः, स्त्रीकट्या जघनं पुरः । उपस्थं च भगो योनिः, स्त्रीचिन्हं स्मरमन्दिरम् पुंश्चिन्हं मेहनं मे, शिश्नं शेफ इति स्मृतम् । अपानं तु गुदं पायुः, ऊरु: सक्थि समे उभे जानूरुपर्वा ऽष्ठीवत्, प्रतिजङ्घा तु पिण्डिका । पादः पदोंहिश्चरणः, चलनः क्रमणः क्रमः मण्डनं स्यादलङ्कारो, भूषणाभरणे अपि । शीर्षाभरणं शीर्षण्यश्चूडामणिः शिरोमणिः मौलि: किरीटं कोटीर-मुष्णीषं मुकुटं तथा। आपीडशेखरोत्तंसा-वतंसाः शिरसः स्रजि ललामकं ललाटस्थं, कर्णपुरं तु कर्मगम्। तिलकं तमालपत्रं, चित्रं पुण्डं विशेषकम् पत्रलेखा पत्रलता, पत्रभङ्गी ललाटिका । ताडङ्कस्तु ताडपत्रं, कुण्डलं कर्णवेष्टनम् नासानामग्रतः पुष्पमाभरणं च मौक्तिकम् । अञ्जनं कज्जलं चैव, ताम्बूलं मुखरञ्जनम् ॥ २२७॥ ।। २२८॥ ।। २२९ ॥ ।। २३० ॥ ॥ २३१ ॥ || २३२ ॥ 345 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy