SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ९४ ॥ ॥ ९५॥ ॥ ९६ ॥ ॥ ९७॥ ॥ ९८ ॥ जीवंजीवश्चलचञ्च-श्चकोरो विषसूचकः । ज्योत्स्नाप्रियोगारभोजी, गुन्दालो विषभीरुकः ताम्रचूड: कुक्कुश्च, कृकवाकुः शिखण्डिकः । प्रभातज्ञो निशावेदी, वृत्ताक्षश्चरणायुधः अनुवादी रक्ततुण्ड:, शुकः कीरः फलादनः । खञ्जनः खञ्जरीटश्च, निलश्चाषः किकीदिविः हंसो मरालश्चकाङ्गो, मानसौकाः सितच्छदः । हंसभेदा राजहंसा, कदम्बा धार्तराष्ट्रकाः तार्क्ष्यः सुपर्णो गरुडो, वैनतेयोऽरुणाम्बुजः । गरुत्मान् पक्षिराजश्व, सरिः काश्यपात्मजः खगो विहङ्गमः पक्षी, विहङ्गो विहगो द्विजः । पत्री पतत्त्री शकुनिः, शकुन्तः शकुनः पतन् विहायो विः पत्ररथो, विकिर: पतगोण्डजः । नगौका नीडनिलयः, खचरो विष्किरो वयः पक्षश्छब्दो गरुत्पत्रं, पतत्रं च तनूरुहम् । वाजोऽस्य पक्षतिर्मूलं, चञ्चुस्त्रोटिः सृपाटिका वायुः समीरणो वातः, समीरो मारुतो मरुत् । गन्धवाहो गन्धवहो, मातरिश्वा प्रभञ्जनः सदागतिर्जगत्प्राणो, नभस्वान् पवनोऽनिलः । श्वसनः पवमानश्च, पृषदश्वः प्रकम्पनः अहिप्रियो दैत्यदेव, आशुगः स्पर्शनोऽस्य तु । पुत्रौ भीमहनूमन्तौ झञ्झा वृष्टियुतो मरुत् ॥ ९९॥ ॥ १०० ॥ ॥१०१ ॥ ॥ १०२॥ ॥ १०३॥ ॥ १०४॥ ३४५ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy