SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ २ ॥ ॥ ३ ॥ ॥४ ॥ पू.आ. श्री हर्षकीर्तिसूरिविरचिता ॥शारदीया नाममाला ॥ प्रणम्य परमात्मानं, सच्चिदानन्दमीश्वरम् । ग्रनाम्यहं नामामालां, मालामिव मनोरमाम् परमात्मा परम्ब्रह्म, परञ्ज्योतिरगोचरः। निरञ्जनश्चिदानन्दः, परमः परमेश्वरः देवाधिदेवः सर्वज्ञो, वीतरागो जिनेश्वरः । तीर्थङ्करो जगन्नाथो, जिनोऽर्हन् भगवान् प्रभुः वाग्देवी शारदा ब्राह्मी, भारती गी: सरस्वती। हंसयाना ब्रह्मपुत्री, सा सदा वरदायिनी विनायक: पशुपाणि-विघ्नराजो गजाननः । द्वैमातुर एकदन्तो, लम्बोदरगणाधिपौ गौरीसुतश्च हेरम्ब-स्तथा मूषकवाहनः । कार्यारम्भेषु सर्वेषु सिद्धिबुद्धिप्रदोऽस्तु सः सुगतः श्रीधनो बुद्धो, बोधिसत्त्वस्तथागतः । द्वयवादी दशबलो, जिनः शौद्धोदनिर्मुनिः ब्रह्मा प्रजापतिः स्रष्टा, विधिर्वेधाः पितामहः । हिरण्यगर्भो द्रुहिणः, परमेष्ठी चतुर्मुखः धाता विधाता लोकेशो, विरञ्चिविश्वसृड् ध्रुवः । सुरज्येष्ठ: कमलभूः, स्वयम्भूर्नाभिभूरजः पद्मनाभोऽग्रयोनिः स्या-दात्मभूः कमलासनः । तत्पुत्रो नारदो वीणा संयुतो हंसवाहनः श्रीपतिः केशवः कृष्णो, गोविन्दो माधवोऽच्युतः । दामोदरो दैत्यरिपु-विष्णुनारायणौ हरिः ॥६॥ ॥ ७ ॥ ॥८॥ ॥९॥ ॥ १० ॥ ॥ ११ ॥ 330 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy