SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १५६ ॥ ॥ १५७॥ ॥१५८॥ ॥ १५९॥ ॥ १६०॥ ॥ १६१ ॥ संदेश: प्रिययोर्वार्ता, प्रवृत्तिः किंवदन्त्यपि । कठोरं कठिनं स्तब्धं, कर्कशं परुषं दृढम् अश्लीलं काहलं फल्गु, कोमलं मृदु पेशलम् । प्रत्यग्रं साम्प्रतं नव्यं, नवं नूतनमग्रिमम् पुराणं जरठं जीर्णं, प्राक्तनं सुचिरन्तनम् । भो रे हंहो हे चामन्त्रे, कच्चित् किञ्चन संशये द्राक् क्षणेऽह्नाय सपदि, निषेधे मा न खल्वलम् । उच्चैरुच्चावचं तुङ्ग-मुच्चमुन्नतमुच्छ्रितम् नीचं न्यग् आनतं कुब्जं, नीचैर्हस्वं नयेत् परम्। अमा सह समं साकं, साधू सत्रा सजूः समाः सर्वदा सततं नित्यं, शश्वद् आत्यन्तिकं सदा । शृङ्गी दृतिहरि थ-हरिस्तिर्यक् च शृङ्गिणः गौश्चतुष्पात् पशुस्तत्र, महिषी नाम देहिका । वियोग मदनावस्थां, विरहं फुल्लकं विदुः संहितं सहितं युक्तं, संपृक्तं संभृतं युतम् । संस्कृतं समवेतं च, प्राहुरन्वीतमन्वितम् प्रेमाभिलाषमालम्बं, रागं स्नेहमतः परम् । वर्माऽध्वा सरणिः पन्थाः, मार्गः प्रचरसञ्चरौ त्रिमार्गनामगा गङ्गा, घोषो गोमण्डलं व्रजः । वत्सः शकृत्करिर्जातः षोडन् षड्दशनः स्मृतः कृती नदीष्णो निष्णातः, कुशली निपुणः पटुः । क्षुण्णः प्रवीणः प्रगल्भः, कोविदश्च विशारदः विदग्धश्चतुरो धूर्त-श्चाटुकृत् कितवः शठः । क्वापि नागरिको ज्ञेयो, गोत्रं संज्ञाङ्कनाम तत् ॥ १६२॥ ॥ १६३॥ ॥ १६४ ॥ ॥ १६५ ॥ ।। १६६ ॥ ॥ १६७ ॥ ૨૯૨ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy