SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1॥ १४४॥ ॥ १४५॥ ।। १४६॥ ॥ १४७॥ ।। १४८॥ ॥ १४९॥ अर्जुनः फाल्गुनो जिष्णुः, श्वेतवाजी कपिध्वजः । गाण्डिवी कार्मुकी सव्य-साची मध्यमपाण्डवः वृषसेनः सुनिर्मोको, दैत्यारिः शक्रनन्दनः । कर्णशूली किरीटी च, शब्दभेदी धनञ्जयः कुरुकीचकयोः शत्रु-र्वायुपुत्रो वृकोदरः । समवर्ती यमः कालः, कृतान्तो मृत्युरन्तकः धर्मराजः पितृपतिः, सूरसूनुः परेतराट् । शमनो यमुनाभ्राता, श्राद्धदेवश्च दण्डभूत् तदात्मजोऽजातरिपुः, कौन्तेयो भरतान्वयः । कौरव्यो राजलक्ष्मा च, सोमवंश्यो युधिष्ठिरः श्वेतार्जुनौ शुचिः श्येतो, वलक्षं सितपाण्डुरम् । शुक्लावदातं धवलं, पाण्डु: शुभ्रं शशिप्रभम् कृष्णं नीलाऽसितं कालं, धूमं धूम्रमलिप्रभम् । लोहितं रक्तमातानं, पाटलं विशदारुणम् गौरं पीतं हरिद्राभं, पालाशं हरितं हरित् । हरिणी लोहिनी शोणी, गौरी श्येनी पिशङ्ग्यपि सारङ्गी शबली काली, कल्माषी नीलपिङ्गली। परागं मधु किञ्जल्कं, मकरन्दं च कौसुमम् उपचाराद् रजः पांसु, रेणुं धूली च योजयेत् । कलङ्काऽवद्यमलिनं किञ्जल्कं लक्ष्म लाञ्छनम् निर्वादमधमं पड्क, मलीमसमपि त्यजेत् । जनोदाहरणं कीर्ति, साधुवादं यशो विदुः वर्णं गुणावलि ख्याति-मवदानं तु साहसम् । प्रेष्याऽऽदेशनिदेशाऽऽज्ञा-नियोगाः शासनं तथा ॥ १५०॥ ।। १५१॥ ।। १५२॥ ।। १५३॥ ।। १५४॥ ॥ १५५ ॥ ૨૯૧ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy