SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org गणिका लञ्जिका वेश्या, रूपाजीवा विलासिनी । पण्यस्त्री दारिका दासी, कामुकी सर्ववल्लभा कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः । वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः 2 सवित्री जननी माता जनकः सविता पिता । देहोऽपघनकायाङ्गं, वपुः संहननं तनुः कलेवरं शरीरं च मूर्तिरस्माद्भवः सुतः । पुत्रः सूनुरपत्यं च, तुक् तोकं चात्मजः प्रजा उद्वहस्तनयः पोतो, दारको नन्दनोऽर्भकः । स्तनन्धयोत्तानशयौ, स्त्रीत्वे दुहितरं विदुः वयस्याऽऽली सहचरी, सध्रीची सवयाः सखी । आलीविवर्जितं मित्रं सम्बन्धो मित्रयः सुहृत् و सहकृत्वा सहकारी, सहायः सामवायिकः । सनाभिः सगोत्रो बन्धुः सोदर्योऽवरजोऽनुजः कनीयानग्रजो ज्येष्ठो भ्राता जामी स्वसाऽनुजा । भर्तुः स्वसा ननान्दा स्याद्, मातुलानी प्रियाम्बिका वैर्यतिरमित्रोऽरि-द्विट् सपत्नो द्विषद् रिपुः । असेव्यो दुर्जनः शत्रु- दुष्टो द्वेषी खलोऽहितः दीधितिर्भानुरुत्रोंऽशु- र्गभस्तिः किरणः करः । पादो रुचिर्मरीचिर्भास्, तेजोऽचिगौर्द्युतिः प्रभा दीप्तिर्ज्योतिर्महो धाम, रश्मिरूर्जी विभा वसुः । शीतोष्णप्रायपूर्वत्वे, तद्-वन्ताविन्दु भास्करौ शशी विधु: सुधासूतिः, कौमुदीकुमुदप्रियः । कलाभृच्चन्द्रमाश्चन्द्रः, कान्तिमानोषधीश्वरः Acharya Shri Kailassagarsuri Gyanmandir ૨૦૨ For Private And Personal Use Only ॥ ३६ ॥ 11 36 11 ॥ ३८ ॥ ॥ ३९ ॥ ॥ ४० ॥ ॥ ४१ ॥ ॥ ४२ ॥ ॥ ४३ ॥ ॥ ४४ ॥ ॥ ४५ ॥ ॥ ४६ ॥ ॥ ४७ ॥
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy