SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥४१॥ ॥४२॥ ॥४३॥ ॥ ४४ ॥ ।। ४५ ॥ द्वितीयायाश्चतुर्थ्याश्च षष्ठया युष्मद्बहुत्वके। वश्चाऽऽसां च विभक्तीनां द्वित्वे वां कथितो बुधैः आकाशे विहगे विश्व शं श्रेयसि सुखेऽव्ययः । शा तु शान्ते च सास्नायां शी: शये हिंसनेऽपि च शुश्चन्द्रे षः सदार: स्यात्तथेष्टे प्रसवे तु षः । सः सूर्ये च परोक्षे च सं शङ्कावव्ययस्तु सम् सङ्गार्थे शोभनार्थे च प्रकृष्टार्थ-समर्थयोः । प्रथमान्तस्तदः स्थाने स्मृतौ लक्ष्म्यां च सोच्यते हः शूलिनि करे नीरे क्रोधे गर्भप्रभाषणे। निवासेऽथाव्ययो हः स्यात् सम्बुद्धौ पादपूरणे अव्ययो हा स्मृतः शोके तथा दुःख-विषादयोः । हि हेतौ पादपूर्ती च विशेषे चावधारणे स्फुटे दानेऽथाव्ययो ही दु:खे हेतौ च विस्मये । विषादे चाव्ययो हं त्वनुनये कोपभाषणे हुमव्ययः परिप्रश्ने वितर्के वचने तु हौ । हे कुत्सायां तथा हे तु हूतौ सम्बोधने तु हौ राक्षसे क्षस्तथा क्षेत्रे शब्दा ये व्यक्षरादयः । स्वरान्ता व्यञ्चनान्ताश्च ज्ञेया ग्रन्थान्तरात्तु ते मलधारिगच्छभर्तुः सूरेः श्रीराजशेखरस्य गुरोः। शिष्यः सुधाकलश इत्येकाक्षरनाममालिकामतनोत् ॥ ४६॥ || ४७॥ ॥ ४८ ॥ ।। ४९ ॥ ॥५०॥ Ros For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy