SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ६ ॥ ॥ ७ ॥ ॥८ ॥ ॥ ९ ॥ ॥ १०॥ रोषोक्तौ मन्त्रणेऽप्यर्थेऽव्यय उं त्वव्ययस्तथा । प्रश्ने चाङ्गीकृतौ रोषे पुंल्लिङ्ग ऊस्तु रक्षणे ऊमव्ययः प्रकोपोक्तौ प्रश्ने ऋर्देवमातरि । अव्यय ऋतु कुत्सायां वचनेऽपि तथैव च ऋस्त्वजे दानवाञ्छायां ऋच स्याद् देवमातरि । ऋर्वाराह्यां भवेदेस्तु विष्णावैस्तु वृषध्वजे ओरूर्ध्वलिङ्ग आहूतावव्यय: स्यादनन्त ओ। संबोधने चाव्यय औ परब्रह्मण्यमः शिवे क: सूर्य-मित्र-वाय्वग्नि-ब्रह्मा-ऽऽत्म-यम-केकिषु । प्रकाश-वक्त्रयोश्चापि कं नीर-सुख-मूर्धसु कुर्भू-कुत्सितशब्देषु पापीयसि निवारणे । ईषदर्थे च किंशब्द: कुत्सने क्षेप-प्रश्नयोः वितर्का-ऽऽश्चर्य-निन्दासु किशब्द: स्यात् कियानपि । खमिन्द्रिय-स्वर्ग-शून्य-भूपा-ऽऽकाश-सुखेषु च संविदि शून्यखण्डे च वर्त्तते खश्च भास्करे।। गो गन्धर्वे गणेशे च गीते गं गश्च गातरि गौर्वाणी-बाण-भू-रश्मि-वज्र-स्वर्गा-ऽक्षि-वारिषु । दिशि धेनौ श्रुतेश्वर्या गणेशे चापि गौः स्मृतः घः कुम्भे हनने घोषा-ऽन्तर्भाव-किङ्किणीष्वपि । ङो विषये भैरवे च चस्तरौ चन्द्र-चौरयोः चुश्चकोरे समाख्यातश्चकारः पुनरव्ययः । अन्योन्यार्थे विकल्पार्थे समासे पादपूरणे पक्षान्तरे समूहार्थे हेताववधृतावपि। अन्वाचये तथा तुल्ययोगितायां च कीर्तितः ॥११॥ ॥१२॥ ॥१३॥ ॥ १४ ॥ ॥ १५ ॥ ॥ १६ ॥ २७3 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy