________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
एकाङ्गुलं भवेत् श्रेष्ठं द्व्यङ्गुलं धननाशनम् । त्र्यङ्गुलेन भवेत्सिद्धिर्वर्जयेच्यतुरङ्गुलम् पञ्चाङ्गुलं भवेद्वित्तं उद्वेगं तु षडङ्गले । सप्ताङ्गुले तु गोवृद्धिस्त्यजेदष्टाङ्गुलं सदा नवाङ्गुलं तु पुत्राय अर्थहानिर्दशाङ्गुले । एकादशाङ्गुलं बिम्बं सर्वकामार्थसिद्धिदम् नृपभयमत्यङ्गायां हिनाङ्गायामकल्पिता भर्तुः । कृशोदरायां क्षुद्भयमर्थविनाशः कृशाङ्गायां आयुः श्रीफलजयदा दारुमयी मृन्मयी तथा प्रतिमा । लोकहिताय मणिमयी सौवर्णी पुष्टिदा भवति रजतमयी कीर्त्तिकरी प्रजावृद्धि करोति ताम्रमयी । भूलाभं तु महान्तं शैलप्रतिमाऽथवा लिङ्गम् प्रासादतुर्यभागस्य समाना प्रतिमा मता । उत्तमायुः कृते सा तु कार्यैकेनाधिका गुला अथवा स्वदशांशेन हीनस्याप्यधिकस्य च । कार्या प्रासादपादस्य शिल्पिभिः प्रतिमा मता ? सर्वेषामपि धातूनां रत्नस्फटिकयोरपि । प्रवालस्य च बिम्बेषु चैत्यमानं यदृच्छया प्रासादगर्भगेहार्धे भित्तित: पञ्चधा कृते । यक्षाद्याः प्रथमे भागे देव्यः सर्वा द्वितीयके विनायक स्कन्ध कृष्णानां प्रतिमाः स्युस्तृतीयके । पद्मा तु तुर्यभागे च लिङ्गमीशां न पञ्चमे ?
भागे तृतीयेऽर्हद्द्द्बिम्बं स्यात् द्वितीयेऽम्बिकादयः
૧૮
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ ७ ॥
॥ ८ ॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १४ ॥
॥ १५ ॥
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥