SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भूम्न्युभौ तु शिवाभेदे खट्वाङ्गे वारि वालुके । भिक्षुभङ्गेऽपि, कीशे तु प्लवगः सप्लवङ्गमः प्लवङ्गः प्रवगोपेतः प्रवङ्गोऽथ मृगे भवेत् । मर्कटः कर्मटस्तद्वत् कुरङ्गश्च कुरङ्गमः वातायुश्च सवातायुर्दन्त्यतालव्यपूर्वगः । शारङ्गः शबलवर्णे चातकेऽपि ससार्गकः मृगभेदे कृष्णसारकालसारौ सदन्त्यकौ । सतालव्यौ च, पृषत् पृषतो बिलशायिनि कन्दली नन्तो ड्यन्तश्च कदली त्रिषु कन्दला । हस्तायामऽश्याममृगे ऋश्य - रिश्यौ च सम्मतौ ऋष्य- रिष्यौ मृगभेदे, वाताभिमुखगामिनि । मृगे वातप्रमीः पुंस्त्रीदन्तो ङीबन्तकोऽप्ययम् अमि पुंसि वातप्रमी शशि वातप्रमीनिति । ङौ वातप्रमीति रूपं ग्रामणीवच्च शोषकम् स्त्रियामीदन्तं लक्ष्मीवद् डीबन्तं तु नदीसमम् । श्वाविधि शललः शल्यः शल्यकः पुंस्त्रियोर्मतः तच्छलाकायां तु शलं शललस्त्रिषु गोधिका । अवलत्तिका लत्तिका गोधा, सर्पसुते पुनः गोधेर - गोधारौ, पल्यां गृहोली गृहगोलिका । गृहोलिका मुसली मूर्द्धन्यतालव्यदन्त्यभाक् अञ्जन्यामञ्जनाधिका हालिनी च हलाहलः । कृकलासे कृकुलासः सरट: सरडस्तथा सरण्डच प्रतिसूर्य: प्रतिसूर्यशयानकः । शयानकः, आखौ तु स्याद् मूषिका मूषिकोऽपि च ૪૫ Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only ॥ ३२४ ॥ ।। ३२५ ।। ॥ ३२६ ॥ ॥ ३२७ ॥ ॥ ३२८ ॥ ॥ ३२९ ॥ ॥ ३३० ॥ ॥ २३१ ॥ ॥ ३३२ ॥ ॥ ३३३ ॥ ॥ ३३४ ॥ ।। ३३५ ।।
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy