SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ३६॥ ॥ ३७॥ ॥ ३८ ॥ ॥ ३९ ॥ ॥ ४० ॥ ॥ ४१ ॥ सरलः कर्मशीले स्यादायः (?) सत्यार्य उच्यते। शिखरिण्यां रसालाऽऽज्ये हविष्यं हविरिष्यते ह्योगोदोहोद्भवे हैयं शुण्ठ्यां विश्वाऽथ काञ्जिके। सौवीरं राजिकायामसुरी मनोरथे वशः आशंसे हाऽदने लेहाऽऽहारावुपचितेंऽसलः । वली च त्र्यूषणे व्योषं विक्लवे विह्वलो मतः सभायां तु सद: संसद् वचनस्थित आश्रवः । वश्यः प्रणेये चाऽर्चायामर्हा च स्यादहंकृतौ अहंयुः संशयितरि संशयालुरुपस्करे । वेषवारोऽथ निद्रालौ शयालुरनुगामिनि सहायोऽथ जवे रंहो स्यश्च पथिकव्रजे । हारिः पथ्यदने प्रोक्तं शम्बलं हि क्षमे सहः खेलिन्यां शारि-शारौ च कुले वंशः स्त्रियां विशा । वरारोहाऽबला बाला योषा योषिद् निषेवणे शुश्रूषा वरिवस्या च सेवा प्रियतमे वरः । प्रियायां च शरीरेशी सख्यामालियस्यया स्त्रीगुणे हावो हेला च विलासो लीलया सह । पाणिग्रहे विवाह: स्याद् गणिकायां तु वेश्यया वारयोषाऽथ सुरते संवेशो रहसा सह । व्यवायश्च भागिनेये स्वस्त्रीयः पतिभार्ययोः पित्रोः श्वश्रूश्वशुरौ चात्मीये स्वीयः स्व इत्यपि । भग्न्यां स्वसा बान्धवे स्वो दयितायाः सहोदरे श्यालो भार्याभगिन्यां च श्याला हाली मृते शवः । काये वेरं शरीरं चाङ्गेऽवयवोऽथ मूर्द्धनि ॥ ४२ ॥ ॥४३॥ ॥४४॥ ॥ ४५ ॥ ॥ ४६॥ ॥४७॥ ૧૬૦ For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy