SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। ९६ ।। || ९७ ॥ ११ ९८॥ || ९९ ॥ ॥१०० ॥ ॥ १०१ ॥ अज्ञानाच्चेद्धृवो बन्धो ज्ञेयानन्त्यान्न केवली। ज्ञानस्तोकाद् विमोक्षश्चेदज्ञानाद् बहुतोऽन्यथा विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेऽप्युक्ति वाच्यमिति युज्यते अज्ञानान्मोहतो बन्धो नाज्ञानाद्वीतमोहतः । ज्ञानस्तोकाच्च मोक्षः स्यादमोहान्मोहितोऽन्यथा कामादिप्रभवश्चित्रः कर्मबन्धानुरूपतः । तच्च कर्म स्वहेतुभ्यो जीवास्ते शुद्ध्यशुद्धितः शुद्ध्यशुद्धी पुन: शक्ती ते पाक्यापाक्यशक्तिवत् । साद्यनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् । कमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् उपेक्षा फलमाद्यस्य शेषस्यादानहानधीः । पूर्वं वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यान्निपातोऽर्थयोगित्वात्तव केवलिनामपि स्याद्वाद: सर्वथैकान्तत्यागात्किवृत्तचिद्विधिः । सप्तभङ्गनयापेक्षो हेयादेयविशेषक: स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्च ह्यवस्त्वन्यतमं भवेत् सधर्मणैव साध्यस्य साधादविरोधतः । स्याद्वादप्रविभक्तार्थविशेषव्यञ्जको नयः नयोपनयैकान्तानां त्रिकालानां समुच्चयः । अविभ्राट् भावसंबन्धो द्रव्यमेकमनेकधा ॥ १०२ ॥ ॥ १०३॥ ॥ १०४ ।। ॥ १०५ ॥ ॥ १०६ ॥ ॥ १०७॥ 63 For Private And Personal Use Only
SR No.020963
Book TitleShastra Sandeshmala Part 22
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages428
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy