SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || २१ ॥ || २२॥ ॥ २३ ॥ यामः पूर्वनिशोपभोगकथया नीतोऽपरो निद्रया नीतः कोऽपि वयस्यया सह रताम्नायोपदेशक्षणात् । स्नानाकल्पविकल्पकल्पनविधेरन्यो दिनस्य क्षणात्तल्पे वासकसज्जया युगसमो यामो निशायाः कृतः आकल्पं विरचय्य तल्पममलं सज्जं विधायादरादालीभिः कथया कयापि समयं वारान्बहून्पृच्छती । द्वारे निश्चललोचना परपद्ध्वाने तमेवागतं मन्वाना निजमन्दिरै रसवशाद्धन्यस्य बाला वसेत् गच्छ त्वं सखि वाचिकं लघुपदं नीत्वा नयैनं शठं कुत्रास्ते नु वदन्निजेन सुहृदा केनापि तत्तद्वचः । गच्छामो यदि लाघवं ननु परा हासाय दीर्घाननाः का वा गौरवलाघवादिकलना वश्ये तथा वल्लभे आकल्पो मलिनो भविष्यति मनाग्भूयोऽधुना धीयते भुक्तं तल्पमथोज्झितं च सहसा सख्यः परिस्तीर्यताम् । संकल्पेन विधाय संगमसुखं जातावबोधा पुनधन्यः वासकसज्जया प्रतिपदं प्राणाधिकं स्मर्यते पत्त्राली चिरलालिता करतलस्पर्श कपोलाद्गता लुप्तो रागपरिग्रहोऽधरतले तद्वाचिकालापतः। लीलातामरसं मलीमसमभूदुच्छासतोऽधः पतत्संकेतालयतल्पकल्पनपरा तेऽध्वानमन्विष्यति मानश्चेतसि नाथ ! वासकलहो नालिङ्गने मेति न स्वैराभाषणमौनिता न शयने वैमुख्यबुद्धिश्च न । सीत्कारोऽधरखण्डने न सुरते मुग्धाक्रमो नेति ना पुंभावं गतया हठादभिहितः स्त्रीत्वं गतः पुण्यवान् ॥ २४॥ ॥२६॥ ७४ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy