SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १५ ॥ ॥१६॥ ॥ १७॥ कान्तो नर्मणि नैपुणेन विदितस्त्वं शैशवद्वेषिणी क्रीडाशैलशिरोमणिर्गृहमिदं रम्यो वसन्तोत्सवः । सख्यः कामकथोपचारचतुरा: संभोगकालेऽधुना मानो वा कलहोऽथवा यदि कदा तच्चेतसो निर्वृतिः जन्मारभ्य न यावदद्य सुभगंमन्याक्रमो हापितः स्वैरं तिष्ठतु कान्तया स रमतां मा मां नयध्वं बलात् । इत्थं जल्पति यावदेव सुमुखी तावत्क्षणादागत: कान्तस्तल्पमलंचकार च वदन्कस्येदृशी संगतिः अज्ञास्ते सुहृदालयोऽतिपिशुनास्त्वं कर्णयोर्दुर्बला दृष्टे सागसि वल्लभे मृगदृशां मानः स्वयं जायते । लोको हासरसाकुलः परगृहे प्रेमोपभेदोद्यतो ह्याखुर्दन्तमुखेन खण्डयति सत्यद्धाम्बरं हेलया पृष्टः कातरतां विहाय शयने मानापराधौ कदा जायेतामिदमुत्तरं कथितवान्स्मित्वा चिरं चिन्तय । बाले संप्रति नैतयोस्तु समयः श्रुत्वेति हासच्छलादालीभि: समकालमेव समयं दृष्टा चिरात्तर्जनी स्निग्धे तादृशि नौचिती परुषता दृष्टेऽवहित्था कथं धीरं सस्मितमालपत्यनुदिनं निर्हास्यमास्यं कुतः । निद्राणं तनुरोम तिष्ठति पुरा तत्संनिधावादरात्सख्यो मानमुदाहरन्तु कलहे बालोद्यमः कीदृशः धैर्यं मुञ्च कुरुष्व मानममलं तद्गौरवस्यास्पदं मानादेव गुणोदय: किमधिकं दासायते वल्लभः । उक्ते घेहि मनो निशभ्य सकलं तूक्ता वयस्यास्तया दत्तं नाम मनोऽन्यतो न विदितं दत्तं कथं दीयते ॥ १८॥ ।॥ १९ ॥ ॥२०॥ 03 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy