SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ११ ॥ कस्मै संचारदीपा: पथि पथि विहिताः स्वर्गसोपानमार्गे रम्भे कुम्भं निधाय स्वशिरसि पुरतः कस्य हष्टा प्रयासि । तीर्थे तीर्थे तपस्या रविचिरमधुना सोऽधुनेहाभ्युपेतस्तावत्क्लेशेन तत्किं कृतमिह नयतो जायते स्वप्रकाशः ॥१०॥ पित्रोरासीच्छिशुत्वे गतवति विगतं शैशवे तत्पुरस्ताज्जातं नारीषु पश्चात्तरुणिमनि गते मूलतस्तद्विनष्टम् । पुत्रे प्रेम स्थविष्ठं यद्भवदमलं तस्य नाशो न भावी भावी चेच्चिन्तयामः पदमविकमदानन्दकन्दं तदन्तः पुण्येऽरण्ये कदाचित्तरुवरनिबिडच्छायया जातशातः प्राप्त: किंचित्समाधि परिचितपरमज्योतिरानन्दसान्द्रः । कर्मच्छेदापराधप्रकुपितशमनभृकुटिभ्रंसहासानेष्येऽहं वासराणां निमिषमिव शतं सज्जनैरीक्षमाणः ॥ १२ ॥ तल्पेऽनल्पे शयालोरचलजयलवप्राप्तनिद्रासमाधेहमारेकदेशे सहजपरिणतं बिभ्रतः पत्रमङ्गे। शोभां दधुः कदा मे विषमविषधराः पीडनादुच्छसन्तः सद्यः क्षीरोदपूरे फणिपतिशयने सुप्तपीताम्बरस्य ॥ १३॥ सिध्यत्पर्यङ्कबन्धस्थिरसकलजनो विनी मे पुरस्ताद्रकोरङ्के शयालोरपघनबहलामोदमन्दाविलास्या । गन्धादुद्वीज्यमाना सरसरसनया सृक्कणी लेलिहाना रंहः संहारधीरा मृगपतिरमणी पालिता स्वा शुनीव भृङ्गारे भीतिभारावधिकमिति फलं पीतपत्रे तदेव सौधे हिंसाप्रयत्नौ क्षितिधरविवरे निर्वृतिः सा समैव । खेदश्वासौ नटीनां धृतिरिह नयने केकिनाट्ये तथैव तस्मादायासभूयः सुखमिलविपिने योगिनां हेडयैव ॥ १५ ॥ ॥ १४॥ ૫૪ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy