SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ४७॥ शास्त्रं लोचनमेकमेव सफलं स्यादञ्जनं यत्सतां गूढार्थं निधिमीक्षितुं कृतधियामुत्साहसंवर्धकम् ॥ ४५ ॥ छद्मन्यार्जवमार्जवे च कपटो द्विष्टेऽथ मैत्री तथा मित्रे द्वेषणता हठेतिमृदुता स्यान्मार्दवे वा हठः । सुस्निग्धे परुषत्वमेव परुषे स्नेहो न वा स्वच्छता स्तब्धे वानतिरेकतो न सुभगा भीते हिते निर्भयम् ॥ ४६॥ दोषावेक्षणचातुरी परधनव्यर्थव्ययोत्साहधीधतिद्वेषधनादरो नयविदा निन्दा कथाया मिथः । विघ्नः पुण्यकथासु संसदि सतां हासस्य दृष्टान्नतः स्युर्दोर्जन्यनिबन्धनानि गुणिना हेयानि दूरादरम् न्यग्रोधाध्वनि रोपितोऽसि कृतिना विश्रामहेतोरथ च्छायावानसि शीलितोऽसि न पुरा दृष्टोऽसि दूरात्कली। खेलद्वानरयूथनायकमुखत्रस्यच्छिशूनामहो मूर्छामोहजलार्थिनी निपतिता कूपे क्वचिद्गेहिनी रोहिण्या निजवल्लभस्य हृदये कस्तूरिकालेपनं यद्दत्तं रसपेशलेन विधुना लुप्तं च न प्रेमतः । लक्ष्मैतत्किल कल्पितं समभवत्कस्मादिदं तत्कथोत्प्रेक्षाकौतुकतो विनिश्चितमिदं पापं महादुर्जनैः ॥ ४९ ॥ श्रोता चेत्खलजल्पितस्य पुरतो हुंकारदाता भवेदेकः कोऽपि न सज्जनस्य चरिते दोषा: कियन्तस्तदा । संभाव्या यदि सज्जनस्य पुरतो दोषैकभूमिः कृते दुष्टानामपि नो गुणाः कति कति स्युर्दोषजाते तदा ॥ ५० ॥ सिन्धो रत्नाकरोऽसाविति मुदितमनाः कोऽपि लुब्धो धनी नः प्राप्तस्त्वत्तीरमाराज्जलमुपरसनं थूत्कृतं तृष्यतापि । ॥ ४८ ॥ ४3 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy