SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org एकं जानन् समस्तानि सर्वं जानंस्तथैककम् । ततश्च निष्फलारम्भः केन तत्साधने हि नः क्षायोपशमिका भावाः क्षयमायान्ति कुत्रचित् । क्षायोपशमिकाश्चैता विज्ञानावृतयः स्फुटम् सन्दिग्धेपि च धर्मज्ञे भव्यजन्तोर्न कर्कशः । अधिक्षेपस्य दायिन्यो वाचः पाप यथा तव इन्दियार्थोपभोगश्च नानक्षेणेति शासितम् । स्वप्नेन चाप्यनक्षेण तवापि रससंविदः देवोत्तमत्रयं त्वं वा सर्वज्ञं कथमिच्छसि । साधनं तत्किमन्यत्र व्याघातं प्रतिपद्यते उपदेशो हि बुद्धादेरित्यादि विफलं वचः । त्रयेप्यस्य समानत्वात् को विशेषोऽपरत्र वः एकतः सर्वपापानि मद्यं मासं च एकत: । इत्यादि गदितं मोहान्नारदादिभिरञ्जसा यथा यथाऽपनीयन्ते ज्ञानावरणमस्य तु । तथा तथा च संवित्तौ विशेषः सम्प्रतीयते यच्चापचीयमानं तु सर्वथाऽप्यपचीयते । नारकादेर्यथैवायुः सर्वथैवापचीयते ज्ञस्वभावे स्वतः पुंसि तारतम्यविशेषतः । तपसापचयो दृष्टो ज्ञानावृतिषु कश्चन अबन्धयोगमापत्रे सर्वथाऽपचयो मतः । साक्षात्तस्य ततो ज्ञानमशेषार्थेषु जायते अशेषावरणापाये ज्ञानं सर्वार्थगोचरम् । ज्ञस्वभावत्वतः पुंसः को नु तं वारयिष्यति 39C For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir ॥ २७२ ॥ ॥ २७३ ॥ ॥ २७४ ॥ ।। २७५ ।। ।। २७६ ।। ।। २७७ ।। ॥ २७८ ॥ ॥ २७९ ॥ ॥ २८० ॥ ।। २८१ ॥ ॥ २८२ ॥ ॥ २८३ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy